Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ निर्लोचकेशचयचक्रगतं सुहासं तेजस्वितप्ततपनीयतरप्रभावम् । आस्यं त्वदीयमतुलं विलसत्यनति बिम्बं रवेरिव पयोधरपार्श्ववति ॥२८॥ अन्वयः निर्लोचकेशचयचक्रगतम्, सुहासम्, तेजस्वि, तप्ततपनीयतरप्रभावम्, अतुलम्, अनर्ति, त्वदीयम्, आस्यम्, पयोधरपार्श्ववति, रवेः बिम्बम्, इव, विलसति ॥२८॥ वृत्तिः निर्लोचकेशचयचक्रगतम् - लोचाल्लुञ्चनान्निर्गता निर्लोचा - लोचविरहितास्ते च ते केशचयाः कुन्तलसमूहा निर्लोचकेशचयास्तेषां चक्रं नामैकदेशे नामग्रहणात् - चक्रवालं मण्डलम्, तद्गतं प्राप्तन्तथा । "चक्रवालं तु मण्डलम्" इत्यमरः । वस्तुस्तु निर्लोचकेशचयमध्यगतमित्ययं पाठः समीचीन: प्रतिभाति, चक्रशब्दस्याऽभिधेयेषु "चक्र: कोके पुमान् क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः ॥ जलावर्ते" इत्यनेकार्थकोशनिर्दिष्टेषु कुत्राऽप्यर्थसङ्गतेरभावादित्यनुसन्धेयम् । सुहासम् - सुन्दरहासकलितम् । तेजस्वि - प्रशस्तं तेजो ज्योतिरस्त्यस्मिन्निति तथा । "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्ति विवक्षायां भवन्ति मतुबादयः" इत्यभियुक्तोक्त्या प्रशंसायामपि मतुबर्थप्रत्ययविधानात् । "तेजो दीप्तौ प्रभावे च स्यात् पराक्रम-रेतसोः" इति मेदिनी । तप्ततपनीयतर प्रभावम् - 'सुतप्तकाञ्चनाधिकप्रतापम् । “अल्पान्तरम्" इति पाणिनिनिर्देशात्तारतम्यविवक्षायामपि तरप्रत्ययविधानदर्शनात्कथं द्रव्यवाचिशब्दात् तरदिति शङ्का निरस्ता वेदितव्या। "कलधौतलोहोत्तमावहितबीजान्यपि गारुडं गैरिकजातरूपे । तपनीयचामीकरचन्द्रभर्माऽर्जुननिष्ककार्तस्वरकर्बुराणि" ४।११०॥ इत्यभिधानचिन्तामणिः। अतुलम् - नास्ति तुलोपमा यस्य तत्तथा निरुपममिति यावत् । अनति - नास्त्यतिः पीडा दुःखं वा यस्मात् तादृशं तथा, यद् दृष्ट्वा जनानामाध्यात्मिकाधिदैवताधिभौतिकदुःखानि निवर्तन्ते इति भावः । “अतिः पीडाधनुष्कोट्योः" इति कोशः । त्वदीयम् - भवदीयम् । आस्यम् - वदनम् । पयोधरपार्श्ववर्ति - पयसो जलस्य धरो धारकः पयोधरो - मेघस्तस्य पाश्र्वं समीपं पयोधरपार्श्वन्तमवर्तत इति तथा । “पयोधरः कोशकारे नारिकेले स्तनेऽपि च । कशेरुमेघयोः पुंसि" इति मेदिनी। “पार्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षः । सदेशमभ्यग्रसनीडसन्निधानान्युपान्तं निकटोपकण्ठे" ६।८६॥ इत्यभिधानचिन्तामणिः । रवेः - सूर्यस्य । बिम्बम् - मण्डलम् । इव - यथा । विलसति - शोभते । अत्र बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मकोपमालङ्कारः तथा चोक्तं रसगङ्गाधरे - "इतश्चाऽन्येऽपि प्रभेदाः कुशाग्रधिषणैः स्वयमुद्भावनीयाः । तत्र क्वचिदनुगाम्येव धर्मः, क्वचिच्च केवलं बिम्बप्रतिबिम्बभावमापन्नः । क्वचिदुभयम् । क्वचिद्वस्तु-प्रतिवस्तुभावेन कराम्बितं बिम्बप्रतिबिम्बभावम् । क्वचिदसन्नप्युपचारतः । क्वचिच्च केवलशब्दात्मकः" इति ॥२८॥ ४९

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130