Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 54
________________ बलिन्दमः । असि - भवसि । (अत एव) व्यक्तम् - प्रकटम् । (त्वमेव) पुरुषोत्तमः - पुरुषश्रेष्ठः, विष्णुरूप इति भावः । अत्रोल्लेखालङ्कारः । “एकस्य वस्तुनो निमित्तवशाद्यदनेकैर्ग्रहीतृभिरनेकप्रकारकं ग्रहणं तदुल्लेखः" इति रसगङ्गाधरे पण्डितराजो जगन्नाथः । अत्र लक्षणे "अधरं बिम्बमाज्ञाय मुखमब्जं च तन्वि ! ते । कीराश्च चञ्चरीकाश्च विन्दन्ति परमां मुदम्" इति पद्ये कीरचञ्चरीकाभ्यामधरवदनयोबिम्बत्वेन पद्मत्वेन च ग्रहणे भ्रान्तिरूपेऽतिप्रसङ्गवारणायैकस्य वस्तुन इति, "धर्मस्याऽऽत्मा भागधेयं क्षमायाः" इत्यादिमालारूपकेऽतिप्रसङ्गवारणायाऽनेकैर्ग्रहीतृभिरित्यविवक्षितबहुत्वकं ग्रहणविशेषणम् इति ॥२५।। अद्याऽपि तत्स्मृतिपथं न जहाति सूक्तं भक्त्या त्वया जिनवरं प्रणिपत्य सूक्तम् । तुभ्यं नमस्त्रिजगतः परितोषणाय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥ अन्वयः त्वया, जिनवरम्, प्रणिपत्य, सूक्तम्, तत्, सूक्तम्, अद्यापि, स्मृतिपथम्, न, जहाति, "जिन !, त्रिजगतः, परितोषणाय, तुभ्यम्, नमः, भवोदधिशोषणाय, तुभ्यम्, नमः" ॥२६।। · वृत्तिः त्वया - ज्ञानदर्शनचारित्रात्मरत्नत्रितयाराधकेन निजजननपवित्रीकृतधरित्रीतलेन रक्षितवसुधातलेन श्रीमता तत्रभवता भवता । जिनवरम् - जिनेश्वरं देवाधिदेवम् । प्रणिपत्य - प्रणम्य । सूक्तम् - सु - सुष्ठ उक्तं गदितं तथा । तत् - अनुभूतपूर्वम् । सूक्तम् - स्तुतिपद्यम् । अद्याऽपि - अधुना खलु यावदिदानीमिति यावत्, अव्ययानामनेकार्थत्वात् । स्मृतिपथम् - स्मरणसरणिम् । स्मृतेः पन्था इति विग्रहे षष्ठीतत्पुरुषसमासोत्तरम् "ऋक्-पू-पथ्यपोऽत् ६।३।७६" इत्यनेन समासान्तोऽत्प्रत्ययः अथवा "बाटः पथश्च मार्गश्चे" ति त्रिकाण्डशेषकोशेऽकारान्तपथशब्दोपलब्धेः स्मृतेः पथः स्मृतिपथस्तं तथेत्यवसेयम् । न - नहि । जहाति - त्यजति । कीदृशं किस्वरूपं वा सूक्तमित्याकाङ्क्षाभ्यामुत्तरार्द्धमाह - "तुभ्यं नमस्त्रिजगतः" इत्यादिना, जिन - विजितरागद्वेषादिदेवाधिदेव ! त्रिजगतः - त्रयाणां जगतां लोकानां समाहारस्त्रिजगत् तस्य तथा, स्वर्गमर्त्यपातालात्मभुवनत्रितयस्येत्यर्थः । परितोषणाय - परि सर्वतोभावेन तोषणं सन्तोषप्रदानम्, परितोषणन्तस्मै तथा । तुभ्यम् - श्रीमते तत्रभवते भवते । नमः - नमस्कारः, नमोवाद इति यावत् । “नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च" इत्यनेन नमःशब्दयोगे चतुर्थी द्रष्टव्या । स्वावधिकोत्कृष्टत्व प्रकारकज्ञानानुकूलव्यापारो नम्धात्वर्थोऽवसेयः । भवोदधिशोषणाय - भवः संसारो - जन्मपरम्परा वोदधिः - समुद्रो भवोदधिस्तस्य शोषणं विनाशनं भवोदधिशोषणन्तस्मै तथा । तुभ्यं - श्रीमते चारित्रचूडामणये सूरिचक्रचक्रवर्तिने भवते । नमः - नमोवादः । अस्त्विति शेषः । अत्र स्मरणार्थप्रतीते: स्मरणालङ्कार इति न भ्रमितव्यम् - "सादृश्यज्ञानोबुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कारः" इति रसगङ्गाधरोल्लिखिततदलङ्कारलक्षणतः स्मरणस्य सादृश्यमूलकत्वे निदर्शनादिवदलङ्कारत्वम्, तस्याऽभावे व्यङ्ग्यतायाऽभावः, तयोरभावे वस्तुमात्रमिति द्रष्टव्यम् ॥२६॥ ४७

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130