Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पद्धतिरिति यावत् । “पदव्येकपदी पद्या पद्धतिर्वर्त्म वर्तनी। अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सतिः" ४।४९।। इत्यभिधानचिन्तामणिः । ननु - निश्चयेन । मुनीन्द्र - योगिनाथ ! सूरिचक्रचक्रवर्तिन् ! भवता - तत्रभवता श्रीमता त्वया । अपि - खलु । भवस्य संसारस्य जन्ममरणपरम्पराया वा मन्था विलोडकः विध्वंसक इति यावत् । अन्यः - सम्यग्ज्ञानदर्शनचारित्रातिरिक्तः । शिवपदस्य - शिवस्य मोक्षस्य शिवं सुखकरं वा पदमास्पदं स्थानमिति यावत् शिवपदम् तस्य तथा। "पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः । पादतच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः ॥ श्लोकपादेऽपि च क्लीबं पुल्लिङ्गः किरणे पुनः" इति मेदिनी। पन्थाः - मार्गः । न - नहि । (इति) उद्घोषितम् - प्रकाशितम् । ज्ञानदर्शनचारित्राणि विना कथमपि केनाऽपि भविकेनाऽपि मोक्षपदं न प्राप्तुं शक्यते इति यत्र तत्राऽनेकशः श्रीमद्भिर्व्याख्यानावसरे श्रावकाः सम्बोध्य भुजोत्क्षेपं प्रतिबोधिता इति भवन्त एव नितान्तमेतेषां मोक्षमार्गोपदेशकत्वेन हितैषिणो नाऽन्ये तादृशाः केचन बभूवतुरिति तात्पर्य्यार्थः । यद्यपि प्रकृतिपुरुषविवेकज्ञानान्मोक्षः ब्रह्म-साक्षात्कारान्मोक्षः, इत्यादि तैस्तैरपरैर्मोक्षमार्गः प्रदर्शितस्तथाऽपि सर्वज्ञ-दर्शनानुसारं तेषां पूर्वपक्षाः क्षपिता भवद्भिरिति न दोषशङ्कालेशकलङ्कणिकाऽपीति सुधीभिरपरोक्षम् ॥२३।।
व्याख्यानभूरतिविशालतरा यदीयं
__स्यात् श्रोतुमात्महितकृद् वचनं त्वदीयम्। . कीर्णाऽऽगतैः समजनैस्तदिहोल्लसन्तो।
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ ___ अन्वयः ज्ञानस्वरूपम्, अमलम्, आत्महितकृत्, त्वदीयम्, वचनम्, श्रोतुम्, आगतै, समजनैः, कीर्णा, इयम्, व्याख्यानभूः, यदि, अतिविशालतरा, स्यात्, तत्, इह, उल्लसन्तः, सन्तः, प्रवदन्ति ॥२४॥
वृत्तिः ज्ञानस्वरूपम् - ज्ञानं मोक्षोपयोगि बोधः स्वरूपं स्वभावो यस्य तत्तथा । अमलम् - निर्मलम्, पदपदांशवाक्यार्थरसालपञ्चविधदोषविवर्जितं काव्यमयमिति यावत् । यद्यप्येतेषामुद्देश्यप्रतीतिविघातकानामुक्तानां पञ्चविधानामपि दोषाणां काव्यदोषतया काव्य एव हेयत्वेन तदीयवचने तेषां हेयत्वाभावेन तादृशदोषराहित्यं न प्रयोजकमिति प्रतिभाति तथापि सत्प्रतिभावतां महाकवीनां सूरीश्वराणां वचनस्य गद्यपद्यान्यतरकाव्यात्मत्वेन तत्राऽपि तादृशदोषाणां शान्तरसापकर्षकतया हेयत्वमिति । आत्महितकृत् - आत्मोपकारपरायणम् । त्वदीयम् - भवत्सम्बन्धि । वचनम् - उपदेशात्मकवचः । “व्याहार उक्तिर्लपितं भाषितं वचनं वचः" इत्यमरकोशः । श्रोतुम् - सादरमाकर्णितुम् । आगतैः - समायातैः । समजनैः - समताशोभितलोकैः, अथवा समशब्दस्य सर्वप-यत्वेन समे सर्वे च ते जना लोकाः समजनास्तैस्तथा । "सर्वं समग्रमन्यूनं समग्रं सकलं समम्" ६६९।। इत्यभिधानचिन्तामणिः । कीर्णा - व्याप्ता । इयम् - प्रत्यक्षदृश्या । व्याख्यानभूः - व्याख्यानस्थानम्, व्याख्यानशालायां तात्पर्य्यम्, तस्या अपि व्याख्यानस्थानत्वानपायात्, भूशब्दस्य पृथिवीवाचकत्वेन स्थानवाचकत्वं नास्तीति न भ्रमितव्यम्, भूः
४५

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130