Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
44
वृत्ति: संसारवारिनिधिजातदुरन्तदोषम् - वारिणी जलानि निधीयन्ते स्थाप्यन्तेऽस्मिन्निति वारिनिधिः समुद्रः, संसारो भवो जन्ममरणपरम्परैव वा वारिनिधिः समुद्रः संसारवारिनिधिस्तस्माज्जात उत्पन्नो दुरन्तो दुष्परिणामश्चाऽसौ दोषो दूषणं संसारवारिनिधिजातदुरन्तदोषस्तन्तथा । हृत्वा - विनाश्य । सदा सर्वदा । आचरितम् - आचारविषयीकृतम् सत् । आत्मपोषम् - आत्मसम्प्रदानकपरिपोषदायकम् । तव - श्रीमतो भवत: सूरीश्वरस्य । जैनम् - जिनानां श्रीमदादिदेवप्रमुखचतुर्विंशतितीर्थकृतामिदं जैनम् । वचः - देशनात्मकं वचनम् । अन्तरे - आत्मनि । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरव सरममध्येऽन्तरात्मनि च" इत्यमरः अपि - खलु । तथा तेन प्रकारेण । अलसत् - अशोभत् । (यथा) येन प्रकारेण, भवान्तरे - लोकान्तरे, परलोके इति यावत् । वस्तुतस्तु भवान्तरे इत्यस्य जन्मान्तरे इत्येवमर्थो विधेयः, तथैव प्रस्तुतोपयोगात् " भवः क्षेमेशसंसारे सतायां प्राप्तिजन्मनोः" इति मेदिनी । अपि - खलु । कश्चित् - कोऽपि । ना - पुरुषः । मनः - स्वीयमन्तःकरणम् । न नहि । हरति - चोरयति, दूरीकरोतीति यावत्, जैनागमसम्बन्धि भवदीयं तथाविधं व्याख्यानकालिकं शान्तरसप्रवाहान्वितं कठिनातिकठिनचेतोविद्रावकं जन्मान्तरीयनिजवृत्तान्तस्मारकं भवति यथा लोकः - का कथाऽस्य जन्मन: ? परस्मिन् जन्मन्यपि भवदाज्ञावशवर्ती भवितुकामो भवतीति भावः । संसारे वारिनिधित्वारोपाद् रूपकमलङ्कारः । तच्च रूपकं प्रकृते निरङ्गमवसेयम् । यत्र प्रधानस्य कस्यचिदारोपस्य पोषणार्थमन्यान्ये आरोपाः संभवन्ति तत्रैव रूपकस्य साङ्गत्वस्वीकारात् प्रकृते चाऽन्येषामारोपाणामभावान्निरङ्गत्वं स्फुटमेवेत्यवसेयम् ॥२१॥
›
श्रीमद्यशोविजयवाचकमुख्यग्रन्थान्
विश्वे तवैव प्रतिभा कृतवत्यकन्थान् ।
आशाः पराः प्रसवते परमर्कमालं
प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥
-
अन्वयः तव, एव, प्रतिभा, लोके, श्रीमद्यशोविजयवाचकमुख्यग्रन्थान्, अकन्थान्, कृतवती, पराः, आशाः, प्रसवते, परम्, स्फुरदंशुजालम्, अर्कमालम्, प्राची, एव, दिग्, जनयति ॥२२॥
वृत्तिः तव - विविधविद्याविद्योतमानमानसस्याऽऽचार्य्यवृन्दपुरन्दरस्य भवतः । एव - अवधारणार्थकमव्ययम्, तेन नाऽन्यस्य कस्यचिदित्येतत्कलितं भवति । प्रतिभा - नवनवोन्मेषशालिनी प्रज्ञा । “प्रज्ञानवनवोन्मेषशालिनी प्रतिभा मता" इत्यभियुक्तोक्तेः । या किल काव्यकारणतया ध्वनिकारश्रीमदानन्दवर्धनाचार्य्याभिनवगुप्तमम्मटविश्वनाथाप्पय्यदीक्षितपण्डितराजजगन्नाथप्रमुखैः काव्यतत्त्वार्थपरिपक्ववासनावद्भिर्विद्वद्भिर्व्यवस्थापिताऽस्तीति । इदमत्र तत्त्वम् - "शक्तिर्निपुणता लोक-काव्यशास्त्राद्य वेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे" इति कारिकया सम्मीलितस्येव प्रतिभापरपर्य्यायशक्ति निपुणताभ्यासैतत्त्रितयस्य काव्यकारणत्वं न तु केवलायाः प्रतिभायाः अत एव " इति हेतुस्तदुद्भवे" इत्यत्रैकवचनमपि सङ्गच्छते तथापि पण्डितराजैः प्रतिभाया एव केवलायाः काव्यकारणत्वेन स्वीकारान्न
४३

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130