Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 48
________________ गन्धमालाद्यैः सर्वस्य कटुरेव सः" इत्यभियुक्तोक्त्याऽपरिवर्तनीयस्वभावतां नयतीति भावः । अथवा दर्शनपदेनोक्तकोशबलादेव शास्त्रं ग्राह्यन्तथा चाऽनेकान्तवादबलतोऽपि केवलं न स्थितं नयेदपि च माधुर्य्यादिकमित्याद्युन्नेयम् । नु - वितर्के । जगत् - लोकम् । विद्योतयत् - ज्ञानेन प्रकाशयत् । अपूर्वशशाङ्कबिम्बम् - नूतनचन्द्रमण्डलम् । अस्तीति शेषः । अत्राऽपि व्यतिरेकालङ्कारः । अपूर्वशशाङ्क अन्यधर्मसम्बन्धनिमित्तेनाऽन्यस्याऽन्यसम्भावनमिति बिम्बमिति सम्भावनादुत्प्रेक्षाप्यस्ति । उत्प्रेक्षा च कुवलयानन्दकारोऽप्पय्यदीक्षितः । रसगङ्गाधरकारः पण्डितराजो जगन्नाथस्तु " तद्भिन्नत्वेन तद्भावकत्वेन वा प्रमितस्य पदार्थस्य रमणीयतद्वृत्ति - तत्समानाधिकरणतद्धर्मसम्बन्धनिमित्तकं तत्त्वेन तद्वत्त्वेन वा सम्भावनात्मानमुत्प्रेक्षां निरूपितवान् ॥१८॥ - सम्यक्त्वबीजवपनात्परमात्मभूते क्षेत्रे वचोऽमृतप्रवर्षणतः प्रसूते । धान्यं शिवं सलिलदोऽयमसारकम्रैः कार्य्यं कियज्जलधरैर्जलभारनम्रैः ॥१९॥ अन्वयः अयम् सलिलदः, सम्यक्त्वबीजवपनात्, परम्, आत्मभूते, क्षेत्रे, वचोऽमृतप्रवर्षणतः, धान्यम्, शिवम्, प्रसूते, असारकम्रैः, जलभारनम्रैः, जलधरैः कार्य्यम्, कियत् ? ॥१९॥ वृत्तिः अयम् - एषः, बुद्धिविषयः सूरिचक्रंचक्रवर्ती । सलिलदः - जलदः, मेघरूप इति यावत् । आत्मभूते - आत्मरूपे । क्षेत्रे - केदारे । “ क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः" इति मेदिनी । सम्यक्त्वबीजवपनात् - सम्यक्त्वं परमार्हतदर्शनानुसारित्वमेव बीजं कारणभूतशाल्यादिसम्यक्त्वबीजं तस्य वपनं - वापः सम्यक्त्वबीजवपनम् तस्मात्तथा । " हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्" इत्यमरः । परम् - अनन्तरम् । “परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले" इति मेदिनी । वचोऽमृतप्रवर्षणतः वचो देशनाद्यात्मकं वचनमेवाऽमृतं पीयूषं वचोऽमृतम्, तस्य प्रवर्षणमासेचनं वचोऽमृतप्रवर्षणन्तस्मात्तथा । पीयूषममृतं सुधा इत्यमरः । शिवम् - मोक्षम् । “शिवो मोक्षे महादेवे कीलकग्रहयोगयोः । बालुके गुग्गुलो वेदे पुण्डरीकद्रुमे पुमान् । सुखक्षेमजले क्लीबम्" इति मेदिनी । मोक्षरूपमिति यावत् । धान्यम् सस्यम् । प्रसूते - जनयति । श्रीमान् महामहिमशाली सूरिचक्रचक्रवर्ती मेघः कस्मिश्चिद्भव्यात्मनि पूर्वं सम्यक्त्वं गाढं निदधाति पश्चात् उपदेशामृतवर्षणद्वारेण मोक्षं प्रापयतीति भावः । असारकम्रैः असारास्तुच्छाश्च ते कम्राः कमनीया असारक्रमास्तैस्तथा । जलभारनम्रैः - जलभारेण सलिलवहनभारेण नम्रा नता जलभारनम्रास्तैस्तथा । जलधरैः - मेघैः । कार्य्यम्-प्रयोजनम् । कियत् - किंपरिमाणम् ? किमपि तैः प्रयोजनं नास्तीति भावः । अत्र श्रीमत्सूरीश्वरधर्मिकजलधरतादात्म्यारोपं प्रधानं प्रति सम्यक्त्वा दौ बीजादेरारोपस्याऽङ्गतया सर्वेषामारोप्यमाणानां वस्तूनां शब्दोपात्तत्वेन च "सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकाऽसि नाऽत्र सन्देहः" इत्यादाविव समस्त - ४१

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130