Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 42
________________ वृत्तिः विकृतिपोषकराः - विकृतेर्मानसिकादिविकारस्य पोषः पोषणं परिपुष्टिरिति यावद्विकृतिपोषस्तस्य कुर्वन्तीति कराः सम्पादकास्तथा । इदमत्र तत्त्वम् - यदि विकृतिपोषं कुर्वन्तीत्येवं विग्रहवाक्यमाश्रीयेत तदा “कर्मण्यम्" इति सूत्रेणाऽण्प्रत्यये विकृतिपोषकारा इत्येवं रूपमापद्येत परन्तु यदि तादृशव्युत्पतौ भवेदभिनिवेशस्तदा आदित्यं पश्यतीत्यादाविनानभिधानादनिष्टरूपप्रसङ्गे वारणीय इति सम्यग् जानन्ति सिद्धान्ततत्त्वरसिकाः । अणवः - पुद्गलपरमाणवः । शीलरूपम् - शीलेन चारित्रेण रूपं सौन्दर्यं यस्य स शीलरूपः, शीलं रूपतों यत्र स वा शीलरूपस्तं तथा । "चारित्रं चरिताचारौ चारित्रचरणे अपि । वृत्तं शीलञ्च" ३/५०७|| इत्यभिधानचिन्तामणिः । “रूपं स्वभावे सौन्दर्ये" इति मेदिनी । त्वाम् - श्रीमन्तं तत्रभवन्तं नेमिगुरुवरम् । अरितरम् -निजप्रधानशत्रुम् । प्रमाय - यथार्थतो विज्ञाय । (अत एव) विहाय - त्यक्त्वा । दूरम् - अतिविप्रकृष्टम् । गताः - अगमन् । विकृतिपोषकाः परमाणवस्त्वां न प्राप्ता अथवा विकृतिपोषकैस्तैस्त्वं न स्पृष्ट इति भावः । ब्रह्मात्मनः - ब्रह्मस्वरूपस्य । तव - श्रीमतो भवतः । शरीरम् - कलेवरम् । अरूपम् - अनुपमितम् । अस्ति - वर्तते । यत् - यस्माद्धेतो । ते - भवतः । समानम् - सदृशम् । अपरम् - अन्यत् । रूपम् - स्वरूपम्, सौन्दर्यमिति यावत् । नहि - न। अस्ति - वर्तते । अनुपमितं भवतां शरीरं रूपञ्चेति भावः ॥१२॥ आस्यं त्वदीयमनिशं न जहाति लास्यं __स्वाभाविकं स्फुरति तत्र सदैव हास्यम् । . पापात्मनां तव पुरो वदनं सजल्पं यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ अन्वयः त्वदीयम्, आस्यम्, अनिशम्, लास्यम्, न, जहाति, तत्र, सदा, एव, स्वाभाविकम्, हास्यम्, स्फुरति, यत्, तव, पुरः, पापात्मनाम् सजल्पम्, वदनम्, वासरे, पाण्डुपलाशकल्पम्, भवति ॥१३॥ वृत्तिः त्वदीयम् - तव श्रीमतो भवत इदन्तथा, भवत्सम्बन्धीति यावत् । आस्यम् - अस्यति क्षिपति वर्णमनेनेत्यास्यं वदनम् । “तुण्डमास्यं मुखं वक्त्रं लपनं वदनानने" ३।२३६॥ इत्यभिधानचिन्तामणिः । अनिशम् - सततम् । “सततानारताश्रान्तसन्तताविरतानिशम्" इत्यमरः । लास्यम् - नृत्यम् । “ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तनम्" इत्यमरः । न - नहि । जहाति - त्यजति । तत्र - भवदीयवदने । सदा - सर्वदा । एव - अवधारणार्थम्, तेन सदैव न तु कदाचिदिति फलितम् । स्वाभाविकम् - स्वभावतो निसर्गात् जातं तथा । "स्याद्रूपं लक्षणं भावश्चाऽऽत्मप्रकृतिरीतयः । सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत्" ६।१२॥ इत्यभिधानचिन्तामणिः । हास्यम् - हासः । “वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः" इति रसगङ्गाधरे जगन्नाथः । अत्राऽऽहुः - आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् । आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः ॥१|| ३५

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130