Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
किरणैः - मरीचिभिः । "किरणोत्रमयूखांशुगभस्तिघृणिरश्मयः । भानुः करो मरीच्यस्त्री" इत्यमरः । विराञ्जि - भ्राजमानानि । जलजानि - कमलानि । पद्माकरेषु - तडागेषु । "पद्माकरस्तडागोऽस्त्री" इत्यमरः । मधुरम् - मनोहरं यथा स्यात्तथा । "चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे । काम्यं कनं कमनीयं सौम्यञ्च मधुरं प्रियम्" ६/८१ ॥ इत्याभिधानचिन्तामणिः । विकाशभाञ्जि - विकाशं भजन्ते इति तथा, सविकाशानीति यावत् । भवन्तीति शेषः । दृष्टान्तालङ्कारः । तदुक्तं कुवलयानन्दे - "वैधयेणाऽप्ययं दृश्यते" "उदाहृतञ्च कृतञ्च गर्वाभिमुखं मनस्त्वया, किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमा-न यावदायात्युदयाद्रिमौलिताम्" इति । तत्र मनोगर्वाभिमुखीकरणवैरिहन नयोरंशुमदुदयाचलमस्तकान्तगमनतमःस्थित्योश्च यथाक्रमं वैधये॒ण बिम्बप्रतिबिम्बभाव-दर्शनादिति ।।९।।
हे योगिनाथ ! भवता भवतः समानाः
सम्पादिता जगति सूरिवराः प्रधानाः । युक्तं प्रदीप इह दीपकमातनोति . भूत्याऽऽश्रितं य इह नाऽऽत्मसमं करोति ॥१०॥ अन्वयः हे योगिनाथ ! भवता, भवतः, समानाः, प्रधानाः, सूरिवराः, जगति, सम्पादिताः, इह, यः, ना, आश्रितम्, भूत्या, आत्मसमम्, करोति, युक्तम्, इह, प्रदीपः, दीपकम्, आतनोति ॥१०॥
वृत्तिः हे योगिनाथ ! - योगोऽपूर्वार्थसम्प्राप्तिश्चित्तवृत्तिनिरोधो वाऽस्त्येषामिति योगिनो मुनयस्तेषां नाथः स्वामी योगिनाथस्तदामन्त्रणे तथा । "योगोऽपूर्वार्थसम्प्राप्तौ सङ्गतिध्यानयुक्तिषु । वपुःस्थैर्ये प्रयोगे च विष्कम्भादिषु भेषजे ।" इति मेदिनी । “यतीन्द्रस्वामिनाथार्याः प्रभुतेश्वरो विभुः" ३/२३ ॥ इत्यभिधानचिन्तामणिः । हे-शब्दस्य संबोधनार्थत्वं "संबोधनेऽङ्ग भो प्याटपाट हे है हं हो अरेऽपि रे" ६/१७३ ॥ इत्यभिधानचिन्तामणितोऽवसेयम् । भवता - तत्रभवता श्रीमता सूरिसम्राजा । भवतः - पूज्यस्य तव । समाः - सदृशाः । जगति - लोके । प्रधानाः - मुख्याः । सूरिवराः - सूरीश्वराः, श्रीमद्दर्शनोदयनन्दनविज्ञानपद्मामृतलावण्यकस्तूराभिधान-प्रसिद्धानष्टावाचा--निति यावत् । सम्पादिताः - कृताः; लोककल्याणकारियता विहिता इति यावत् । इह - अस्मिन् लोके । यः बुद्धिविषयः । ना - मनुष्यः पुरुष इति यावत् । श्रितम् - आश्रितम्, अन्तेवासिनमिति यावत् । भूत्या - ऐश्वर्येण शास्त्रीयाध्यात्मिकादिज्ञानविज्ञानसम्पत्तिसमृद्ध्येति यावत् । अणिममहिमादिभिरिति यावत् ।
"अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वञ्चाऽष्टसिद्धयः ॥ इति ॥
आत्मसमम् - विनयसारल्यपरोपकारित्वदयादाक्षिण्यशमदमज्ञानौदार्यविशुद्धसंयमादिभिः स्वतुल्यम् । करोति - सम्पादयति । इह - अत्र लोके । प्रदीपः - प्रकृष्टो दीपः । दीपकम् - प्रदीपम् । आतनोति - करोति । युक्तम् - उचितमेवेति बोद्धव्यम् । निदर्शनालङ्कारः ॥१०॥
३३

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130