Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 38
________________ कठिनवर्णघटनारूपविकटत्वलक्षणोदारता ७ संयोगपरहस्वप्राचुर्य्यरूपगाढत्वमोजः ८ अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपमौज्ज्वल्यं कान्तिः ९ बन्धगाढत्वशिथिलत्वयोः क्रमेणाऽवस्थानं समाधिः १० इतीमे दश शब्दगुणाः । एवं क्रियापरम्परया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश्च सामानाधिकरण्यरूप: संसर्गः श्लेषः १ यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः २ प्रक्रमाभङ्गेनाऽर्थघटनात्मकवैषम्यं समता ३ एकस्या एवोक्तेर्भङ्ग्यन्तरेण पुनः कथनात्मकमुक्तिवैचित्र्यं माधुर्य्यम् ४ अकाण्डे शोकदायित्वाभावरूपमपारुष्यं सुकुमारता ५ • वस्तुनो वर्णनीयस्याऽसाधारणक्रियारूपयोर्वर्णनमर्थव्यक्तिः ६ चुम्बनं देहि मे भार्थे ! कामचाण्डालतृप्तये" इत्यादिग्राम्यार्थ-परिहार उदारता ७ एकस्य पदार्थस्य बहुभिः पदैरभिधानम्, बहूनां चैकेन, तथैकस्य वाक्यार्थस्य बहुभिर्वाक्यैबहुवाक्यार्थस्यैकवाक्येनाऽभिधानम्, विशेषणानां साभिप्रायत्वञ्चेति पञ्चविधमोजः ८ दीप्तरसत्वं कान्तिः ९ अवर्णितपूर्वोऽयमर्थः पूर्ववर्णितच्छायो वेति कवेरालोचनं समाधिः १० इतीमे दशार्थगुणाः सन्तीति कथं गुणानां त्रित्वमिति शक्यते शङ्कितुम् । तथापि - "श्लेष: समाधिरौदार्य प्रसाद इति ये पुनः । गुणाश्चिरन्तनैरुक्ता ओजस्यन्तर्भवन्ति ते ॥१॥ माधुर्यव्यञ्जकत्वं य-दसमासस्य दर्शितम् । पृथक्पदत्वं माधुर्म्य, तेनैवाऽङ्गीकृतं पुनः ॥२॥ अर्थव्यक्तेः प्रसादाख्य-गुणेनैव परिग्रहः । अर्थव्यक्तिः पदानां हि, झटित्यर्थसमर्पणम् ॥३॥ ग्राम्यदुःश्रवतात्यागात् कान्तिश्च सुकुमारता । क्वचिद्दोषस्तु समता मार्गाभेदस्वरूपिणी । अन्यथोक्तगुणेष्वस्य अन्तःपातो यथायथम् ॥४॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130