Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 33
________________ अन्वयः सः, अजडः, (अपि) रूपरूपणचणम्, विदितात्मरूपम्, इष्टरूपम्, त्वाम्, कवयितुम्, कथम्, ईष्टे, मन्दम्, विना, दिनकरम्, गगने वरीतुम्, सहसा ग्रहीतुम्, अन्यः कः, इच्छति ? ॥३॥ वृत्तिः सः प्रसिद्धः | अजडः - सचेताः, जडो मन्दः, न जडोऽजड इति व्युत्पत्तेः तथा च जडत्वनिषेधसामानाधिकरण्येन सचेतस्त्वप्रतीतेर्महाकवित्वं लक्ष्यतावच्छेदकतया प्रतीयते । अपीति शेषः । रूपरूपणचणम् – रूपयति निरूपयतीति रूपण:, रूपस्य स्वरूपस्य स्वमावस्य वा रूपणो रूपरूपणः, प्रशस्तो रूपरूपणो रूपरूपणचणः, अथवा रूपस्य स्वरूपस्य स्वभावस्य वा रूपणं रूपरूपणं तेन वित्तो रूपरूपणचणस्तं तथा । विदितात्मरूपम् - विदितं ज्ञातमात्मनः परमात्मनो रूपं स्वरूपं येन स विदितात्म रूपस्तं तथा, “रूपं स्वभावे सौन्दर्य्ये नामगे पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकार श्लोकयोरपि " इति मेदिनी । इष्टरूपम् - इष्यतेऽभिलष्यते स्मेतीष्टम्, तत्तादृशं रूपं स्वभावः सौन्दर्य्यमाकारो वा यस्य स इष्टरूपस्तं तथा । त्वाम् - भवन्तम्, तत्रभवन्तम् भगवन्तमिति यावत् । कवयितुम् - विद्यायशस्तपस्त्याग संयम-वादिवशीकरणादिप्रकाशनद्वारेण वर्णयितुम् । कथम् केन प्रकारेण ? । ईष्टे - प्रभवति समर्थो भवतीति यावत् । अत्र यत्तदोर्नित्यसम्बन्धः इत्यनुशासनात्तयोरन्यतरस्याऽनुपादाने स्फुटतयोद्देश्यविधेयभावाद्य प्रतीतिनियमात् तच्छब्दमात्रस्यैव सत्त्वेन कथं विधेयो विमर्शदोषोद्धार इति नाऽऽशङ्कनीयम् - उक्तनियमस्य सत्त्वेऽपि प्रक्रान्ताप्रसिद्धानुभूतार्थकत्वे तच्छब्दस्य यच्छब्दाकाङ्क्षाविरहसिद्धान्तात् । - अत एव " स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते । धातोः स्थान इवाऽऽदेशं सुग्रीवं सन्यवेशयत् ॥" “स वः शशिकलामौलिस्तादात्म्यायोपकल्प्यताम् ॥" I “तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि " इत्यादौ न यच्छब्दोपादानापेक्षेति भावः । दृष्टान्तेन समर्थयति - मन्दमित्यादि - मन्दम् - अज्ञम्, जडम्, शनैश्वरञ्च । " मन्दोऽतीक्ष्णे च मूर्खे च स्वैरे चाऽभाग्यरोगिणोः । अल्पे च त्रिषु पुंसिस्याद्धस्तिजात्यन्तरे शनौ ” इति मेदिनी । विना अन्तरेण । दिनकरम् - करोतीति करः, दिनस्य करो दिनकर : सूर्य्यस्तं तथा । गगने आकाशे । वरीतुम् - अवरोद्धुम् । सहसा हठात्, अविचिन्त्येत्यर्थः । ग्रहीतुम् - उपादातुम् । अन्यः परः, मूर्खादितरः, विद्वानिति यावत् । कः - इच्छति - अभिलषति ? कोऽपि नेत्यर्थः ॥३॥ - - - स्तोत्रं विधातुमिह कोऽविकलोऽपि हीशः सद्धर्मधुर्य्य ! तव दिव्यगिरा मुनीश ! । को गन्तुमत्र गहनान्तमरं पदाभ्यां ? को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥४॥ २६ अन्वयः सद्धर्मधुर्य्य! मुनीश ! इह, दिव्यगिरा, तव स्तोत्रं विधातुम्, अविकलः, अपि, कः, ईशः, अत्र, पदाभ्याम्, अरम्, गहनान्तम्, गन्तुम्, कः, वा, भुजाभ्याम्, अम्बुनिधिम् तरीतुम्, कः, अलम् ? ॥४॥

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130