Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ - - तव वृत्तिः सद्धर्मधुर्य्य ! सन् शोभनश्चाऽसौ धर्मः सुकृतं सद्धर्मः “सन्महत्परमोत्तमोत्कृष्टैः पूज्यमानम्” इत्यनेन कर्मधारयसमासः । तत्र धुर्य्यो धूर्वहः सद्धर्मधुर्य्यस्तदामन्त्रणे तथा । "धुरीणधुर्य्यधौरेय धौरेयकधुरन्धराः । धूर्वहे" ४।३२८ ॥ इत्यभिधानचिन्तामणिः । मुनीश ! मन्तारः शास्त्रतत्त्वावगन्तारो मुनयः “मनेरुच्च” इत्युणादिसूत्रेणेन्प्रत्ययोऽकारस्योकारादेशश्च । तेषामीशः स्वामी मुनीशस्तदामन्त्रणे तथा । इह अत्र लोके । दिव्यगिरा - दिवि स्वर्गे भवा दिव्या स्वर्गीया, अलौकिकीत्यर्थः, सा चाऽसौ गीर्वाणी दिव्यगीस्तया, मनोहारिवचसेति यावत् । "दिव्यं लवङ्गे धात्र्यां स्त्री- वल्गौ दिवि भवे त्रिषु " इति मेदिनी । . श्रीमतो भवतः सूरिचक्रवर्तिनः । स्तोत्रम् - स्तवनं स्तोत्रम् "त्रट्" (हैमोणादि ४४६ ) इति त्रट् तत्तथा प्रशंसाम् । "वर्णनेडा स्तवः स्तोत्रं स्तुतिनुतिः । श्लाघा प्रशंसाऽर्थवादः " २ / १८३ इत्यभिधानचिन्तामणिः । विधातुम् - कर्तुम् | अविकलः विगता कलाकौशलं यस्य स विकलोऽपरिपूर्णः, न विकलस्तथा । सकलकलाकुशलः । अपि संभावनायाम् । “अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये," इति मेदिनी । कः - अनिर्दिष्टनामा को नाम कविः । ईशः - ईष्टे इतीशः समर्थः । अपि तु नैव कोऽपि प्रौढोऽपि कवयिता भवदीयगुणगणप्रशंसनेऽस्ति प्रभुरिति भावः । अमुमेवाऽर्थमुपपादयति को गन्तुमत्रेत्यादि - अत्र - लोकेऽस्मिन् । पदाभ्याम् - चरणाभ्याम् । “पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः । पादतच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः" इति मेदिनी । अरम् सत्वरम् । "अथ शीघ्रं त्वरितं लघुक्षिप्रमरं द्रुतम् । सत्वरं चपलं तूर्णम्" इत्यमरः । गहनान्तम् - काननान्तम् । गन्तुम् - प्राप्तुम् । कः को नाम । अलम् - समर्थः वा अथवा | भुजाभ्याम् - बाहुभ्याम् । अम्बुनिधिम् - अम्बूनि जलानि निधीयन्ते ऽस्मिन्नित्यम्बुनिधिः "व्याप्यादाधारे" ५/३/८८|| इत्यनेन कि: प्रत्यय: । तं तथा, जलधिम् - समुद्रमिति यावत् । तरीतुम् - पारयितुम् । कः को नाम । अलम् - • समर्थ: । "अलं भूषण - पर्य्याप्ति-वारणेषु निरर्थके । शक्तौ " इति मेदिनी । अत्र चरणद्वयकरणकगहनान्तगमनं बाहुद्वयकरणकसमुद्रतरणं वा यथाऽसम्भवितं तथा कविकर्तृक- स्वशक्ति- व्युत्पत्त्यादिकरणकसूरिचक्र चक्रवर्तिगुणस्तवनमसम्भवमिति, “अरण्यरुदितं कृतं शव - शरीरमुद्वर्तितं, स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितं; श्वपुच्छमवनामितं बधिरकर्णजापः कृतो, धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः”, “दोर्भ्यामब्धि तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम्" इत्यादाविव निदर्शनालङ्कारः । “वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना" इति चन्द्रालोकीयलक्षण - वाक्यस्य बिम्बप्रतिबिम्बभावापन्न-वस्तुस्वरूपविशिष्टप्रस्तुताप्रस्तुतधर्मयोरैक्यारोपो निदर्शनेत्यत्रैव कुवलयानन्दे तात्पर्य्यवर्णनादिति शम् ॥४॥ - - - शक्तिं विचारपदवीमविधाय भक्त्या बाढं तव स्तवनमाचरितुं विरक्त्या । उत्साहितोऽस्मि समवेक्ष्य न वै महार्थं २७ - नाऽभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५ ॥ -

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130