Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ समीचीनानि वा तर्कलक्षणसुलक्षणानि सत्तर्कलक्षणसुलक्षणानि, “द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येक मभिसंबध्यते" इति नियमात् त्रिष्वपि पदेषु सत्पदस्य सम्बन्धात् समीचीनो यस्तदीयस्तर्कः सम्यक् यत् तत्कृतपदार्थसार्थलक्षणम्, सुशोभनं यत्तदीयं सुलक्षणमित्यर्थः तैः प्रीतप्रीतैः - अत्यन्तं प्रसन्नैः । सुगीतैः सुष्ठु शोभनं गीतं गायनं लोककदम्बककृतप्रशंसनं येषां ते सुगीताः प्रख्यातयशसस्तैस्तथा । सूरीश्वरैः सुवन्ति समुत्पादयन्ति सन्देहमिति सूरयो विद्वांसस्तेषाम् ईश्वराः श्रेष्ठाः सूरीश्वरा विद्वद्वरेण्यास्तैस्तथा । “विद्वान् सुधीः कविविचक्षणलब्धवर्णाः, ज्ञः प्राप्तरूप - कृति - कृष्ट्यभिरूपधीराः । मेधावि - कोविद - विशारदसूरि" ३|५|| इत्यभिधानचिन्तामणिः । स्तुतिपथम् - स्तुतिः स्तवनं स्तोत्रमिति यावत्, तस्याः पन्थाः मार्गः स्तुतिपथ: “समासान्तोऽत् प्रत्ययस्तं तथा । गमितं प्रापितम् । तादृशैरपि सूरिवरेण्यैः श्रद्धया स्तुतमिति यावत् । त्वाम् - त्वद्रूपं गुरुवरम् । भक्तिनिर्भरहृदा - भक्तिनिर्भरण - अनुरागातिशयेन समुपलक्षितं हृद् हृदयं भक्तिनिर्भरहृद् तेन तथा । "चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः " इत्यमरकोशात् स्वतन्त्रस्य हृदयपर्य्यायस्य हृच्छब्दस्याऽस्तित्वमवसेयम् । प्रणिपत्य - प्रणत्य । अहम्, अपि सम्मावनायाम् । सेन्द्रम् - इन्द्रेण - सौधर्मेन्द्रेण सहितः सेन्द्रस्तं तथा । तम् - प्रसिद्धम् । प्रथमम् - आद्यम् । जिनेन्द्रम्जयन्ति रागद्वेषमोहानिति जिनाः, तेष्विन्द्रः श्रेष्ठो जिनेन्द्रस्तं तथा । स्तोष्ये प्रशंसिष्यामि स्तवनकर्म करिष्ये इति यावत् । किल - संभावनायाम् । "वार्तासंभाव्ययोः किल" इत्यमरकोशः । अत्र प्रस्तुतस्य गुरुवरश्रीविजयनेमिसूरीश्वरस्य विद्वच्चक्रवर्तित्वबोधनाय विशेषणयोः साभिप्रायत्वेन परिकरालङ्कारः ।" “उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः" इति साहित्यदर्पणे तल्लक्षणात् । " ननु साभिप्रायपदार्थवाक्यार्थ विन्यसनरूप-परिकरालङ्कारप्रसङ्गो सर्वत्र काव्यलिङ्गस्य वर्तमानतया तस्य स्वातन्त्र्येणाऽलङ्कारत्वाभाव इति . चेदत्र ब्रूमः - परिकरे पदार्थ - वाक्यार्थ- बलात्प्रतीयमानानामर्थानां वाच्योपस्कारकता, काव्यलिङ्गे तु पदार्थवाक्यार्थयोरेव वाच्यार्थापस्कृतिहेतुनेति परिकरस्याऽलङ्कारत्वं निर्विवादम्, अत एव व्यङ्ग्यार्थस्य वाच्यपरिकरत्वात्परिकर इति नामाऽप्यस्याऽलङ्कारस्य । केचित्तु निष्प्रयोजनविशेषणोपादानेऽपुष्टार्थत्वदोषस्य विद्यमानत्वात् विशेषणस्य सप्रयोजनत्वं दोषाभावमात्रं न कश्चिदलङ्कारः, एकनिष्ठतादृशानेकविशेषणोपन्यासे केवलं वैचित्र्यविशेषात् परिकर इत्यलङ्कारमध्ये परिगणित इत्याहुः । वस्तुतस्त्वनेकविशेषणोपन्यास एव परिकर इति न नियमः, श्लेषयमकादावपुष्टार्थस्य दोषाभावेन नैकस्याऽपि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषात् परिकरः स्वीकरणीय इति ॥२॥ त्वां रूपरूपणचणं विदितात्मरूपं सेष्टेऽजडः कवयितुं कथमिष्टरूपम् । मन्दं विना दिनकरं गगने वरीतु मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥३॥ २५

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130