Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 25
________________ पार्थो विद्यागुरुं द्रोणं शकलीकृतवाञ्छरैः । युद्धे विस्मयते वीरैर्बान्धव्यं चाऽपि गौरवम् ॥६३|| शिखण्डिनं पुरस्कृत्य कृष्णो भीष्ममघातयत् । नोपायन्याय्यतां युद्धे गणयन्ति जिगीषवः ॥६४॥ मूकोऽपि देव्याः कामाक्ष्याः कटाक्षेणाऽभवत् कविः । देवतानां प्रसादेन सुलभाः सर्वशक्तयः ॥६५।। नौकायते मरावुष्ट्रो रूक्षो वक्रमुखोऽपि सन् । शक्तः कार्यविशेषे यस्तस्य रूपं न गण्यते ॥६६॥ चातुर्यं विन्दते बालः संसर्गेण विपश्चितः । ध्रुवो नारदसम्पर्काद्विष्णुभक्तोत्तमोऽभवत् ॥६७॥ देवाश्चरुमपेक्षन्ते पिबन्तोऽप्यमृतं सदा । नास्त्येव तृप्तिः कस्याऽपि लब्धुः सौख्यमनुत्तमम् ॥६८॥ व्रततिः पुष्प्यति क्वाऽपि व्याप्तः परिमलः पुरे । पुण्यकार्यफलं शीघ्रं सर्वैरप्यनुभूयते ॥६९।। रथश्चलति चक्राभ्यां न चक्रेण चरेत् क्षितौ । द्वयोर्योगः सदा श्रेयान् कार्यसिद्ध्यै भुवस्तले ॥७०।। एकाकी दिवमारूढस्तमो हन्ति दिवाकरः । तेजस्वी नाऽन्यसाहाय्यं कार्यसिद्धावपेक्षते ॥७१॥ कृष्णस्य श्वशुरो जातो भल्लूकोऽपि स जाम्बवान् । जातौ जातोऽपि कस्याञ्चिदुन्नतिं लभते गुणैः ॥७२॥ जरासन्धभयात् कृष्णो द्वारकां निर्ममेऽम्बुधौ । शिष्टा दुष्टभयाद्दूरे वस्तुमिच्छन्त्यनुद्धताः ॥७३।। सन्तः प्रतिज्ञां कुर्युश्चेत् पालयिष्यन्ति तां सदा । भीष्मः प्रतिज्ञां कृत्वोग्रां यावज्जीवमपालयत् ॥७४।। जगाम रामो विपिनं पित्राज्ञां शिरसा वहन् । स एक पुत्रः सुकृती पितुरुक्तं करोति यः ॥७५॥

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130