Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नव' रत्नमालिका न च हेतुमन्मुस्थविशेष्यकत्वं परित्यज्य प्रमायां मुख्यविरोवतायानिरूपकत्वं प्रकारताविशिष्टान्यत्वं च विवक्ष्यते। वैशिष्ट्य खनिरूपकत्वस्वविशिष्टप्रकारतानिरूपकत्वोभयसम्बन्धेन । खवैशिष्टयं च स्वमिन्नत्व-स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वोभयसम्बन्धेन । तथा च न कोऽपि दोष इति वाच्यम् । एवमपि वह्नयभाववद्धदसमानकालीनपर्वतो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकव यभाववानिति प्रमाया अव्यावृत्तेरव्यातिप्रसङ्गात् , तादृशज्ञानस्य स्वीयधर्मितावच्छेदकीभूतहदत्वावच्छिन्नविशेष्यकसाध्यपत्ताज्ञानप्रतिबन्धकत्वात् । __ नूतनालोकः मुख्यविशेष्यताद्वयानिरूपकत्वमिति । विभिन्नधर्मावच्छिन्नविशेष्यकसमूहालम्बनव्यावृत्त्यर्थमिदानीमेतन्निवेशः। उक्तज्ञानयोर्ध्यावृत्तिरिति। न चैवमपि पर्वतो घटत्वेन वहथभाववान् । हृदो वह्नयभाववांश्चेति समूहालम्बनमादायाव्याप्तिरिति वाच्यम् ; तादृशप्रमासामान्ये स्वीयधर्मितावच्छेदकावच्छिन्नविशेष्यताशालिसाध्यवत्ताबुद्धित्वविशिष्टत्वं विशेषणम्। वैशिष्ट्यं च स्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाभाववत्त्वसम्बन्थेन । इत्थं च पर्वतविशेष्यकवह्निमत्ताबुद्धित्वस्यापि तादृशतया तथापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाभावस्योक्तसमूहालम्बनप्रमायां सत्त्वेनाव्याप्तेरनवकाशात् । स्वीयर्मितावच्छेद आलोकप्रकाशः प्रमेत्यनुक्त्वा भ्रमभिन्नेत्युक्तिरुक्तरूपस्य सर्वाशे प्रमात्वलाभाय । तेन हृदो वह्निमानित्यादिभ्रमाणां किञ्चिदंशे प्रमात्वेऽपि न क्षतिः । व्याख्यायाम् -घटावृत्तीति । अत्र स्वरूपसमवायान्यतरस्य साध्यतावच्छेदक सम्बन्धतया तद्वयक्तित्वादिकमादाय सद्धेतुत्ववारणाय स्वसमवेतेति। समवायस्यैव तथात्वे यद्यपि समवेतेति व्यर्थम् , तथापि . घटावृत्तिगुणत्वाभाववदटावृत्तिशून्यमित्याकारकगगनादिविशेष्यकप्रमाया अप्युपादानसम्भवान्नातिप्रसक्तिरित्यन्यतरस्यैव तथात्वं विवक्षणीयम् । न चोक्तप्रमाया उपादानेऽपि केवलाभावस्यापि गुणत्वाभावधर्मितावच्छेदकतया अभाववान् साध्यवानिति ज्ञानसाधारणप्रतिवध्यतायाः . कामिनीजिज्ञासादिमात्रनिरूपितत्वात् कथमतिप्रसक्तिवारणमिति वाच्यम् ; स्वीयधर्मितावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेष्यकत्वस्य विवक्षगात् केवलाभावस्य धर्मितावच्छेदकतापर्याप्त्यनधिकरणत्वेन तदादायातिप्रसङ्गासम्भवादित्याशयः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215