Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्सा
१८६
'नच' रत्नमालिका न च भगवज्ञानस्य नियमतोऽव्याप्यवृत्तित्वज्ञानास्कन्दिततया प्रतिबन्धकत्वमेव नास्तीति वाच्यम्; अव्याप्यवृत्तित्वज्ञानानास्कन्दितत्वस्य सामानाधिकरण्यकालिकविशेषणत्वैतदुभयसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपतया धारण्यात् ।
न च वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकतयाऽव्याप्यवृत्तित्वज्ञानानास्कन्दितत्वं नोक्तरूपं सम्भवति । किन्तु तादृशज्ञानविरहविशिष्टत्वमेव । वैशिष्टयं च स्वावच्छेदकक्षणावच्छिन्नस्वसामानाधिकरण्यरूपम्, तथा चाव्याप्यवृत्तित्वज्ञानवति भगवति तद्विरहासत्त्वेन प्रतिबन्धकत्वं दुर्घटमिति वाच्यम्; यत्र तत्कपिसंयोगादिसाध्यकस्थलेऽनाहार्याप्रामाण्यज्ञानानास्कन्दितसाध्याभाववत्तानिश्चयदशायामव्याप्यवृत्तित्वज्ञानं न जातम्, तत्राव्याप्यवृत्तित्वज्ञानस्योतेजकत्वानावश्यकतया तत्प्रतिबन्धकताया भगवज्ञानसाधारण्यात् ।
न चैवमपि तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नवत्ताबुद्धिप्रतिबन्धकतावच्छेदककोटौ तद्धर्मावच्छिन्नविशेष्यकतत्तदभावप्रकारकशानान्यत्वरूपस्य संशयान्यत्वस्यावश्यं निवेशनीयतया तदृक्षत्वावच्छिन्ने कपिसंयोगतदभावावगाहिभगव
. नूतनालोकः सामानाधिकरण्यकालिकविशेषणत्वेति । यद्यप्येकक्षणावच्छिन्नैकात्मवृत्तित्वस्याभावप्रतियोगितावच्छेदकसम्बन्धत्वस्वीकारेणोपपत्तिः, तथापि लाघवात् क्षणाघटितस्यैवास्य सम्बन्धता युक्तेत्याशयः । अभावप्रतियोगितावच्छेदकतयेति । ननु वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वे को दोषः ? न च तादृशसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्यातिरिक्तस्य कल्पने गौरवमिति वाच्यम् ; तादृशसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य स्वप्रतियोगिप्रतियोगिकतादृशसम्बन्धाभावसमनियतत्वेन तत्स्वरूपत्वात् , तस्य चोभयवादिसिद्धत्वादिति चेत् ? ताशसम्बन्धावच्छिन्नातिरिक्तप्रतियोगिताकल्पने गौरवमेवेति । भगवज्ज्ञानसाधारण्यादिति । न च भगवज्ज्ञाने स्वावच्छेदकक्षणावच्छिन्नाधेयताघटिताप्रामाण्यज्ञानाभाववैशिष्टयन सम्भवति, तस्य निरवच्छिन्नवृत्तिकत्वादिति कथं तत्साधारण्यमिति वाच्यम् ? स्वावच्छेदकक्षणावच्छिन्नत्वस्य स्वावच्छेदकक्षण
आलोकप्रकाशः घटितेति । उक्तयुक्त्या अप्रामाण्यज्ञानानास्कन्दितत्वस्योक्तरूपस्यै वावश्यं वक्तव्यत्वादिति भावः।
For Private And Personal Use Only

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215