Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता ज्ज्ञानसाधारण्यं न सम्भवत्येवेति वाच्यम्; यतः संशयत्वं न केवलतद्धर्मिकतत्तदभावप्रकारकज्ञानत्वरूपं समुच्चयसाधारण्यात् । किन्तु एककोट्यंशेऽपरकोटिविरोधावगाहित्वसहितम् । भगवज्ञानस्य प्रमात्वनियमेन तत्र विरोधावगाहित्वात् सम्भव इति तत्साधारण्यं दुरपह्नवमेवेति ।
न च प्रतिबन्धकतावच्छेदकभेदप्रतियोगितावच्छेदकं संशयत्वं लाघवात समुच्चयसाधारणतत्तदभावप्रकारकमेवास्तु, संशयवत् समुच्चयेऽप्रतिबन्धकत्वस्येष्टत्वादिति वाच्यम् ; समुश्चयतृतीयक्षणे तद्वत्ताबुद्धरनुत्पादस्य प्रामाणिकतया इष्टापत्तेरसम्भवात् ।
__ न च कोट्यंशे यत्र विरोधानुपस्थितिः, विरोधविशिष्टस्वरूपादिसम्बन्धेन बाधग्रहश्च वर्तते, तत्र संशयोत्पादस्यानुभाविकतया न तत्र कोट्योर्विरोधभाननैयत्यसम्भव इति वाच्यम् ; कोट्योः कोटिसंसर्गे वा विरोधावगाहित्वस्यैव संशयघटकत्वात् । अथवा यथा लौकिकसन्निकर्षजन्यप्रत्यक्षे साक्षात्करोमीति प्रतीते
नूतनालोकः सम्बन्धित्वरूपतया तत्र तत्सम्भवात् । विरोधावगाहित्वसहितमिति । तथा च समुच्चयेsव्याप्यवृत्तित्वज्ञानस्य हेतुतया तेन प्रतिबन्धाद्विरोधावगाहित्वासम्भवेन न तत्साधारण्यमिति भावः । समुच्चयव्यावृत्तस्यैव संशयपदप्रवृत्तिनिमित्तत्वेऽपि न तस्य प्रतिबन्धकतावच्छेदकघटकत्वम् , गौरवादित्याशङ्कते-न चेति । इष्टत्वादिति । तस्य नियमतोऽव्याप्यवृत्तित्वज्ञानरूपोत्तेजकविशिष्टत्वादिति भावः । समुच्चयतृतीयेति । समुच्चयस्यापेक्षाबुद्धचास्मकत्वे चतुर्थक्षणेऽपि बोध्या। - अनुपस्थितस्यापि संसर्गघटकतया भाने बाधकाभाव इत्यत आह-विरोधविशिष्टेति । नवीनमतमाह-अथवेति । साक्षात्करोमीति प्रतीतेरिति ।
न च घटं साक्षात्करोमीत्याद्यनुव्यवसायस्य घटविषयकप्रत्यक्षविषयकत्वेनैवोपपत्तौ किमतिरिक्तलौकिकविषयताविषयकत्वकल्पनेनेति वाच्यम् ; तथा सति घटोपनीतभानानन्तरमपि तथानुव्यवसायापत्तेः । न च तथाविधानुव्यवसायं प्रति घटादिनिष्ठलौकिकसन्निकर्षादिघटितसामग्रीजन्यघटविशेष्यकघटत्वप्रकारकप्रत्यक्षस्य हेतुत्वोपगमान्नेयमापत्तिरिति वाच्यम् ; तथा सत्यपि गगनं साक्षात्करोमीति प्रतीत्यापत्तेः ।
आलोकप्रकाशः प्रतीत्यापत्तेरिति । न चापाद्याप्रसिद्धया नेयमापत्तिरिति शङ्कथम् ; यतः स्वीयप्रत्यक्षत्वावन्छिन्नविशेष्यतानिरूपितप्रकारतावच्छेदकतासम्बन्धेन घटत्वादौ
For Private And Personal Use Only

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215