Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६
'न च' रत्नमालिका गाहिनो भगवज्ञानस्य लक्षणाघटकत्वादिति वाच्यम् । एवं सति द्रव्यं विशिष्टसत्त्वादित्यादावव्याप्त्यापत्तेः । द्रव्यनिष्ठभेदप्रतियोगितावच्छेदकतात्वापेक्षया विशिष्टसत्तावन्निष्ठभेदप्रतियोगितात्वस्य गुरुतया तदवच्छिन्नाभावाप्रसिद्धः।।
न च हेतुमन्निष्ठभेदनिरूपिता या या प्रतियोगिता तत्तदनवच्छेदकत्वमेवात्र विवक्षितमिति नाप्रसिद्ध यवकाश इति वाच्यम् ; एवमपि घटादिभेदप्रतियोगितानां तत्तद्वयक्तित्वेनोपादाने तत्तत्प्रतियोगितावच्छेदकतात्वापेक्षया तादृशावच्छेदकत्वनिष्ठतद्वयक्तित्वस्यैव लघोः प्रतियोगितावच्छेदकत्वेनाप्रसिद्धितादवरथ्यात् । पारिभाषिकावच्छेद्यत्वस्य विवक्षणेऽनवस्थाप्रसङ्गात् ।
न च यत्र प्रतियोगितायां समशरीरनानाधर्माणां समनैयत्येनावच्छेदकता, यत्र च धर्मद्वयादेर्भेदप्रतियोगितायामवच्छेदकता, तत्र तादृशभेदप्रतियोगिता
नूतनालोकः तादृशावच्छेदकत्वप्रतियोगिकाभावस्य तादृशावच्छेदकसाधारण्यादवच्छेदकतात्वावच्छिन्नप्रतियोगिताकाभावस्यैव विवक्षणीयत्वादिति भावः । न च व्यधिकरणधर्मावच्छिन्नाभाववादिमते गुरुधर्मस्याभावप्रतियोगितावच्छेदकत्वमिष्टमेवेति वाच्यम् ; तस्य तथात्वे कूटाघटितलक्षणे तत्तत्साध्याभाववद्वृत्तित्वत्वावच्छिन्नप्रतियोगिताकामावस्य विवक्षितुं शक्यतया गुरुभूततत्तत्साध्याभाववद्वृत्तित्वसमनियतप्रतियोगिताकाभावविवक्षाया दीधितिकृतामसाङ्गत्यापत्तेः ।
___ पारिभाषिकावच्छेद्यत्वस्येति। हेतुमन्निष्ठभेदप्रतियोगितावच्छेदकतात्वावच्छिन्ननिरूपितस्येत्यादिः । तच्च स्वविशिष्टसम्बन्धिनिष्ठाभावीया या या प्रतियोगिता, तत्तदनवच्छेदकावच्छेद्यत्वरूपम् ।
समशरीरनानाधर्माणामिति । घटपटविषयकतत्तत्पुरुषीयतत्तज्ज्ञानव्यक्तिविषयत्वादिरूपसमशरीरनानाधर्माणामित्यर्थः । अवच्छेदकतेति । कीदृशतद्वयक्तित्वघटितस्यावच्छेदकत्वमित्यत्र विनिगमनाविरहादिति भावः। न चावच्छेदकभेदेन प्रतियोगिताभेदादेकस्यां प्रतियोगितायां नानाधर्माणां कथमवच्छेदकत्वमिति वाच्यम् ; अवच्छेदकासमनैयत्यस्यैव प्रतियोगिताभेदकत्वात् । समनियतनानाधर्मावच्छिन्नप्रतियोगितैक्ये
आलोकप्रकाशः स्वविशिष्टेति । यदवच्छेद्यत्वं प्रतियोगितायामुपपादनीयम् । स एव स्वपदार्थः । घटमात्रविषयकत्वे तत्तज्ज्ञानविषयानेकप्रतीतिसिद्धप्रतियोगितायां लाघवेन घटत्वस्यैकस्यैवावच्छेदकत्वसम्भवादुक्तम्-पटेति । तथा च एटेऽपि तादृशज्ञानव्यक्तिविषयत्वसत्त्वेन घटत्वस्य
For Private And Personal Use Only

Page Navigation
1 ... 211 212 213 214 215