Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 214
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १९७ विशिष्योपादाय तत्तदवच्छेदकतात्वावच्छिन्नाभाव एव निवेश्यते, अन्यादृशभेदप्रतियोगिकतावच्छेदकतानां तु तत्तद्वयक्तित्वेनैवाभावो निवेश्यत इति वाच्यम् ; एवमप्यनन्ततत्तद्वयक्तित्वघटितस्य निरुक्तानवच्छेदकत्वस्य दुर्शयतया दुष्प्रवेशत्वात् । तथा चाव्याप्यसाध्यकाव्याप्त्या केवलसमूहालम्बनान्यत्वस्यैव निवेशनीयत्वाद्वयभिचारिविशेषेऽतिव्यातिर्दुरैवेत्याहुः। तन्नः अप्रामाणिकस्थलविशेष परिकल्प्य दूषणाभिधाने प्रायशः सर्वत्रैव तत्सम्भवेनासामञ्जस्यापत्तेः। अधिकं खयमूहनीयमिति सर्व शिवम् । वक्षःस्थले बालशशाङ्कमौलेः समर्पितेयं 'न च' रत्नमाला । नवैर्लसन्ती विविधैर्विशेषैश्चिरं विधत्तां विबुधप्रमोदम् ॥ इति तृतीयावली । @S नूतनालोकः बाधकविरहात् । धर्मद्वयादेः नैल्यघटत्वादेः । निवेश्यत इति । एकधर्मावच्छिन्नाभावनिवेशेनैवोपपत्तौ विभिन्नतत्तद्वयक्तित्वावच्छिन्नाभावनिवेशस्य गौरवेणानुचितत्वादिति भावः । अन्यादृशभेदेति । घटो नेत्यादिप्रतीतिसाक्षिकभेदेत्यर्थः । तत्तद्वयक्तित्वेनैवेति । न तु तत्प्रतियोगितावच्छेदकतात्वेनेत्यर्थः। तस्य तद्वयक्तित्वापेक्षया गुरोरभावप्रतियोगितानवच्छेदकत्वादिति भावः। वस्तुतस्तु स्वावच्छेदकत्वसम्बन्धेन तत्तत्प्रतियोगित्वावच्छिन्नभेद एव निवेश्यः । अत उक्तरीत्या अनवच्छेदकत्वस्य द्वैविध्येन दुष्प्रवेशत्वेऽपि न क्षतिः। दुर्गेयतयेति । विशिष्टैकार्थरूपत्वाभावस्याप्युपलक्षणमिदम् , असामञ्जस्यापत्तेरिति । अत्र गुरुधर्मसाध्यकव्यभिचारिण्यतिव्याप्तिः, तत्र समानाधिकरणधर्मावच्छिन्नसाध्याभाववत्ताज्ञानस्य भ्रमत्वनियमात् । पारिभाषिकावच्छेदकत्वनिवेशेऽनन्ततत्तप्रतियोगिताघटितत्वेन दुर्जेयत्वमित्यपि बोध्यम्। नन्वत्र साध्यतावच्छेदके स्वावच्छिन्नाधिकरणहेत्वधिकरणसामान्यकत्वानवगाहित्वमेव प्रमायां निवेश्यते, तथा च न पूर्वोक्ताप्रसिद्धिनिबन्धनाव्याप्तिरिति चेन्न; सामान्यपदस्य व्यापकत्वार्थपर्यवसायितया अप्रसिद्धेरपरिहारादित्यभिप्रेत्याधिकमित्युक्तम् । इति तृतीयालोकः॥ आलोकप्रकाशः न्यूनवृत्तेन तादृशभेदप्रतियोगितावच्छेदकत्वप्रसक्तिरित्याशयः । नानाधर्मति । समानाकारकज्ञाननिष्ठविभिन्नतत्तद्वयक्तित्वघटितत्वेन नानात्वं बोध्यम् । इति तृतीयालोकप्रकाशः ॥ ** ** For Private And Personal Use Only

Loading...

Page Navigation
1 ... 212 213 214 215