Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नच' रत्नमालिका
नूतनालोकः न चापादकाभावः शङ्कयः, साक्षात्कारो न घटीय इति बाधबुद्धिदशायां घटं साक्षाकरोमीत्यनुव्यवसायवारणार्थं तथाविधानुव्यवसायं प्रति तथाविधवाधबुद्धर्घटत्वादिना घटादिरूपविषयमन्तर्भाव्य प्रतिबन्धकत्वकल्पने विषयभेदेनानन्तप्रतिवध्यप्रतिबन्धकभावकल्पनापत्त्या गौरवाल्लाघवेन स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितविषयतासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेन लौकिकमानसत्वावच्छिन्नं प्रति स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपिताभावनिष्ठप्रकारतानिरूपितविषयितासम्बन्धा - वच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेन निर्णयस्य प्रतिबन्धकत्वकल्पनमेवोचितमिति यथोक्तसम्बन्धावच्छिन्नप्रतियोगिताकबाधाभावस्यैवात्रापादकत्वसम्भवात् । न चानुव्यवसायं प्रति लौकिकप्रत्यक्षसामग्रीजन्यव्यवसायस्य स्वविषयमन्तर्भाव्य कारणत्वकल्पने गौरवात् स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितविषयतासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेन लौकिकमानसं प्रति लौकिकप्रत्यक्षसामग्र्याः स्वजन्यप्रत्यक्षनिरूपितविशेष्यतानिरूपितप्रकारताविशिष्टस्वाश्रयवृत्तित्वसम्बन्धन कारणत्वकल्पनमेवोचितम् । वृत्तित्वे प्रकारतावैशिष्ट्यं सामानाधिकरण्यस्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । एवं च गगने उक्तसम्बन्धेन लौकिकप्रत्यक्षसामग्रीरूपक्लप्तकारणाभावान्न निरुक्तापत्तिरिति वाच्यम् ; विनश्यदवस्थलौकिकप्रत्यक्षसामग्रीजन्यव्यवसायोत्तरमपि साक्षात्करोमीत्यनुव्यवसायोदयेन तत्र व्यभिचारापत्त्या उपदर्शितकार्यकारणभावकल्पनासम्भवेन विषयविशेषं निवेश्यैव तादृशव्यवसायस्यानुव्यवसायं प्रति कारणत्वकल्पनमावश्यकमिति क्लप्तकारणाभावेन गगनं साक्षात्करोमीत्यनुव्यवसायापत्तिवारणासम्भवात् । लौकिकविषयतास्वीकारे तु स्वीय
आलोकप्रकाशः प्रसिद्धसाक्षात्कारस्यैव गगनत्वे आपादनादुक्तापत्तिरयातैवेति । घटत्वादिना घटादिरूपविषयमन्तर्भाव्येति । विषयितासम्बन्धावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्ना या घटत्वावच्छिन्नप्रकारता, तन्निरूपिताभावप्रकारताघटितरूपेणेत्यर्थः। व्यभिचारापत्येति | न च तर्हि लौकिकसन्निकर्षप्रयोज्यविशेष्यतानिरूपितप्रकारतासम्बन्धेन प्रत्यक्षस्यैव हेतुत्वमस्तु । तथा च न व्यभिचार इति वाच्यम् ; तथा सति समानाकारकज्ञानीयविषयतयोरैक्यपक्षे घटोपनीतभानानन्तरं घरं साक्षात्करोमीत्यनुव्यवसायापत्तेस्वारणात् । तयोर्भेदस्वीकारे तु किमपराद्धं लौकिकविषयतयेत्यभिप्रायः । तादृशेति । लौकिकसन्निकर्षजन्येत्यर्थः । कारणत्वकल्पनमावश्यक
For Private And Personal Use Only

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215