Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 206
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपशृंहिता नूतनालोकः प्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितलौकिकविषयितासम्बन्धावच्छिन्नप्रकारतावच्छेद - कतासम्बन्धेन मानसं प्रति लौकिकविषयतावच्छेदकतासम्बन्धेन व्यवसायस्य हेतुत्वकल्पनया गगनत्वादी तथाविधकारणाभावान्न लौकिकमानसत्वावच्छिन्नापत्तिसम्भवः । यदि च स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपिताभावप्रकारतानिरूपितविषयितासम्बन्धावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेनोपदर्शितबाधनिर्णयस्य प्रतिबन्धकत्वम् , तदैव प्रतिबन्धकाभावरूपकारणबलाद् गगनत्वे लौकिकमानसत्वावच्छिन्नापत्तिः सम्भवति , तदेव न विचारसहं गौरवात् । तथा हि-आहार्यतथाविधबाधनिर्णयोत्तरोत्पन्नोपदर्शितविशिष्टबुद्धौ व्यभिचारवारणायानाहार्यत्वमवश्यं प्रतिबन्धकतावच्छेदककोटौ निवेशनीयम् । नानुगतमाहार्यत्वं शक्यते निर्वक्तुमिति तत्तद्वयतित्वावच्छिन्नप्रतियोगिताकभेदकूटवत्त्वमेव तत्र निवेशनीयम् । तथा च साक्षात्कारो न घटीयो न पटीय इत्यादिविषयभेदेनानन्ताहार्यज्ञानव्यक्तिभेदकूटानामेकत्र प्रतिबन्धकतावच्छेदककोटी निवेशे तेषां विशेषणविशेष्यभावे विनिगमनाविरहेणानन्तप्रतिवध्यप्रतिबन्धकभावापत्त्या गौरवस्य दुष्परिहरत्वात् । प्रकारतावच्छेदकानां विशिष्य निवेशेनैवोपदर्शितव्यवसायानुव्यवसाययोः प्रतिवध्यप्रतिबन्धकभावकल्पनमावश्यकमिति । एवं च गगनं साक्षात्करोमीत्यनुव्यवसायस्यालीकतया आपादकाभावेनापत्तिरशक्यैव । यत्त्वाहार्यज्ञाने यावदप्रामाण्यं न गृह्यते तावन्न भवत्येव विशिष्टबुद्धिरित्यनाहार्यत्वनिवेशो नावश्यक इति; तदसत् । आहार्यज्ञानस्य विशिष्टबुद्धिविरोधित्वे आत्मतत्त्वविवेकटिप्पण्यामभावबुद्धिं प्रति प्रतियोग्यारोपस्य हेतुताखण्डनावसरे आहार्यारोपस्य तद्वेतुतां खण्डयित्वा "आहार्यज्ञानस्याविरोधितया तद्वेतुत्वं स्यात्" इत्याशङ्कच "आहार्यज्ञानस्य प्रागभाववत्ताबुद्वेरभावात्" इत्यनेन आलोकप्रकाशः मितीति । प्रकृतेऽप्रसिद्धत्वात्तयोस्तदकल्पनादिति शेषः। उपदर्शितविशिष्टयुद्धाविति । घट साक्षात्करोमीत्यादिघटत्वादिविशिष्टबुद्धावित्यर्थः। भिन्नभिन्नप्रतिबन्धकतावच्छेदककोटौ तथाविधानन्ताहार्यज्ञानव्यक्तिभेदनिवेशस्य विशिष्य प्रतिबन्धकत्वपक्षेऽप्यावश्यकत्वादुक्तमेकत्रेति । न चाहार्यज्ञानव्यक्तिनिवेशो न सम्भवति; साक्षात्कारो न घटीयो न पटीयश्चेति समूहालम्बनस्य घटाभावांशे आहार्यस्य तद्वयक्तित्वावच्छिन्नभेदनिवेशे पटं साक्षात्करोमीत्यनुव्यवसायप्रतिबन्धकत्वानुपपत्तेः । तदनिवेशे घटं साक्षात्करोमीत्यनुव्यवसायप्रतिबन्धकतापत्तेरिति वाच्यम् ; आंशिकाहार्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215