Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता न च तादृशविषयतानिष्ठं वैलक्षण्यं दुर्वचम् , अखण्डोपाधेरपसिद्धान्तकबलितत्वादिति वाच्यम् ; एवं सति विषयतात्वप्रकारतात्वादीनामपि विलयप्रसङ्गेन बहुतरासामञ्जस्यात् । अस्तु वा कोट्यन्तरविषयकत्वानवच्छिन्नतत्कोटिविषयकत्वमेव तन्निश्चयत्वम् , संशये च समुच्चयवैलक्षण्याय कोटिद्वयविषयकत्वयोरवच्छेद्यावच्छेदकभावोपगमात् । इत्थञ्च भगवज्ञानस्य प्रतिबन्धकत्वं दुरपतवमेवेत्यव्याप्तिः।
नूतनालोकः सन्धेयमिति । संशयेऽपीति । साध्यायुपरागेणैवानुमिनोमीत्यादिप्रतीतेरिव कोटयुपरागेणैव सन्देहीति प्रतीतेरनुभूयमानत्वादिति भावः। तत्प्रतियोगित्वमेवेति । एतेन संशयत्वस्य तत्तदभावावगाहित्वरूपतया तदभावानवगाहिनां सामान्यव्यवस्थापनादावुक्तानां वृक्षः कपिसंयोगाभाववान् तत्र तत्संयोगो वा, वृक्षः कपिसंयोगाभाववान् तनिष्ठाभावप्रतियोगी वा, तत्संयोगाभावः, वृक्षस्तत्संयोगाभाववान् तन्निष्ठभेदप्रतियोगितावच्छेदको वा तत्संयोगाभाव इत्यादिसंशयानां तद्वत्ताबुद्धिप्रतिबन्धकत्वापत्तिरिति परास्तम् । उक्तसंशयानां सर्वेषामपि संयोगाभावनिष्ठकोटिताख्यविषयताशालितया तादृशविषयताशून्यत्वरूपनिश्चयत्वाभावात् ।।
___ कोटिद्वयविषयकत्वयोरिति । यत्तु संशये कोटिविषयतानिरूपितविशेष्यतयोरवच्छेद्यावच्छेदकभावः स्वीक्रियते, समुच्चयीयविशेष्यतयोस्तु न तथात्वम् । एवं चाभावप्रकारतानिरूपितविशेष्यत्वानवच्छिन्नविशेष्यतानिरूपिततत्प्रकारताकत्वमेव तन्निश्चयत्वमिति तन्न; अविरुद्धतया ज्ञायमानद्वन्द्वोपस्थितभावाभावोभयविशिष्टधर्मिविषयकज्ञाने विशृङ्खलधर्मिविषयताद्वयोपगमे ज्ञानस्य समूहालम्बनतया एकवाक्यताविरहेण समासानुपपत्त्या धर्मिविषयतयोरवच्छेद्यावच्छेदकभावध्रौव्येण तादृशज्ञानस्य निश्चयत्वानुपपत्तेः । अवच्छेद्यावच्छेदकभावोपगमादिति । उक्तंचैतद्रनकोशमतपरिष्कारावसरे सत्प्र
आलोकप्रकाशः भावस्वीकारादेव तादृशव्यभिचारवारणसम्भवात् । दोषविशेषजन्ये वंशे उरगभ्रमादौ व्यभिचारस्योक्तदिशैव वारयितुं शक्यत्वाच्च । तादृशभानानन्तरमुरगं साक्षात्करोमीति प्रतीत्या तत्रापि लौकिकविषयतास्वीकारस्यावश्यकत्वेन लौकिकविषयताप्रवेशमात्रेण तत्र व्यभिचारवारणसम्भवात् । एतत्सर्व मनसिकृत्याह-अधिकमिति । साध्याद्युपरागेणैवेति । न तु धाद्युपरागेणेत्यर्थः । सामान्यन्यवस्थापनादाविति । आदिपदेन केवलान्वयिप्रकरणपरिग्रहः ।
For Private And Personal Use Only

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215