Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 210
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १९३ नूतनालोकः नुदयात् । किन्तूत्कटनिश्चयत्वम् । औत्कटयञ्च सम्भावनात्वादिकमिव विषयताविशेष एव, अन्यस्य दुर्वचत्वात् । विशेषदर्शनजन्यतावच्छेदकस्य बहुवित्तव्ययायाससाध्यगोचरप्रवृत्त्यादिनिर्वाहकस्य च तस्य नित्यज्ञानसाधारण्ये मानाभावान्न तस्य प्रतिबन्धकत्वमिति तदप्यसत् ; निश्चिनोम्यवधारयामीति प्रतीत्योः समानविषयकतया निश्चयत्वानतिरेकात्। अनभ्यासदशापन्नज्ञानाद्विशेषदर्शनकालीनज्ञानस्याप्रामाण्यशङ्कानास्कन्दनमेव विशेषः । स्पष्टं चैतत्सत्प्रतिपक्षगादाधर्याम् । निरुक्तावधारणत्वस्य प्रतिबन्धकतावच्छेदकत्वे अवधारणानात्मकविरोधिनिश्चयदशायां तद्वत्ताबुद्धयापत्तेश्च । आलोकप्रकाशः प्रवृस्यादिनिर्वाहकस्येति । प्रवृत्तिनिर्वाहकत्वञ्च प्रामाण्यवादमणावुक्तम्- "प्रामाण्यसंशयानन्तरमिदमित्थमित्थमेवेत्यवधारणस्य निष्कम्पप्रवृत्त्यङ्गस्य प्रामाण्यनिश्चयाधीनत्वात्" इति । अत्र निष्कम्पप्रवृत्यङ्गस्येत्यस्य बहुवित्तव्ययायाससाध्यगोचरप्रवृत्तिहेतोरित्यर्थ इति सकम्पत्वनिष्कम्पत्वे प्रवृत्तिनिष्ठविषयताविशेषात्मके इति च तद्वयाख्यायां स्पष्टम् । संशयत्वं मानसत्वव्याप्यजातिरव्याप्यवृत्तिः, सर्वत्र संशयस्य मानसताया एवोपगमात् । चक्षुस्सन्निकर्षादिमद्धर्मिकसंशयदशायां पर्वतं पश्यामीत्यनुव्यवसायश्च संशयस्य पूर्व परतो वा जायमानतद्विषयकचाक्षुषादिज्ञानस्य कल्पनात्तद्विषयकतयैवोपपादनीयः। संशयत्वस्य चावच्छेदकं तत्तद्धर्मिविषयकत्वावच्छिन्नतत्तत्कोटिविषयकत्वमेव । एवञ्च धर्मिविशेष्यकत्वावच्छिन्नग्राह्याभावप्रकारकत्वावच्छेदेन संशयत्वाभाववस्वमेव धर्मिणि ग्राह्याभाववत्तानिश्चयत्वं वाच्यम् । ह्रदो वह्नयभाववान् पर्वतो वह्निमान् वा न वा, ह्रदो वह्नयभाववान् हृदो जलवान् वा न वा-इत्यादिसंशये च ह्रदविशेष्यकत्वावच्छिन्नवह्नयभावप्रकारकत्वावच्छेदेन संशयत्वाभावोऽनुभवसिद्ध एव, हृदे वह्नयभावं न सन्देझीति प्रतीतेस्तत्र सर्वानुभवसिद्धत्वात् । चाक्षुषादिज्ञानस्यापि संशयत्वे सङ्करभयेन नानैव संशयत्वानि स्वीक्रियन्ते । तदभावकूटवक्त्वमेव निश्चयत्वम् । पर्वतो वह्नयभाववान् वह्निमान् वा, पर्वतो वह्नयभाववान् वह्नयभावाभाववान् वा, पर्वतो वह्नयभाववान् वह्नयभाववद्भिन्नो वा-इत्यादिनानाविधसंशयव्यावृत्त्यर्थमनेकाभावघटितस्य पर्वतविशेष्यकवह्निप्रकारकत्वाद्यभावकूटस्य प्रतिबन्धकतावच्छेदककोटौ निवेशनापेक्षया कतिपयसंशयत्वजात्यभावघटितनिश्चयत्वेन सर्वसाधारणप्रतिबन्धकताकल्पने लाघवात् । तदभावव्याप्यवत्तानिश्चयादिप्रतिबन्धकतावच्छेदककोटावप्युक्तदिशा लाघवं बोध्यम् । अस्तु वा व्याप्यवृत्तिरेव संशयत्वजातिः। तद्विशिष्टनिरूपितत्वं संशये कोटिविषयतायामेवोपेयते । तथा च प्रति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215