Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 202
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १८५ न च जन्यसमूहालम्बनान्यत्वमेव निवेश्यते, तथा च प्रतिबन्धकीभूतेश्वरप्रमाया अपि लक्षणघटकत्वानोक्तातिव्याप्तिरिति वाच्यम् ; एवं सति वह्निमान् धूमादित्यादावव्याप्त्यापत्तेः, हृदे वह्नित्वावच्छिन्नप्रतियोगिताकवह्नयभावावगाहिनो भगवज्ञानस्य स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानप्रतिबन्धकत्वात् । न च हेतुमद्विशेष्यकसाध्यप्रकारकज्ञानसामान्याविरोधित्वमेव निवेश्यते, तथा च भगवज्ञानस्य तादृशशानाविरोधितया नाव्याप्त्यवकाश इति वाच्यम्; उक्तरीत्या भगवज्ञानसंग्रहे तस्य सिद्धिविधया अनुमितिसामान्यविरोधित्वादसम्भवापत्तेः, भगवतोऽनुमिति, भूयादितीच्छाविरहात् । न चानु मितित्वानवच्छिन्नत्वस्य, प्रत्यक्षादिसाधारणसाध्यवत्ताज्ञानत्वव्यापकत्वस्य वा प्रतिवध्यताविशेषणत्वेनोक्तप्रतिवध्यताव्यावृत्तिरिति वाच्यम्; एवमप्यन्याप्यवृत्तिसाध्यकस्थले भगवज्ञानमादायाव्याप्तेरपरिहारात् । नूतनालोकः असमूहालम्बनजन्यज्ञानसंग्रहाय-समूहालम्बनेति । न च जन्यज्ञानासंग्रहेऽपि न क्षतिः, सर्वत्र भगवज्ज्ञानमादायैव लक्षणस्योपपादयितुं शक्यत्वादिति वाच्यम् ; यत्समानाधिकरणत्वादिविशेषणस्य सार्थक्यानुपपत्त्या जन्यज्ञानस्यापि संग्राह्यत्वात् । प्रतिबन्धकीभूतेति । ईश्वरज्ञानस्य प्रतिबन्धकत्वं तु प्रागेव व्यवस्थापितम्। भगवदिच्छायाः सन्मात्रविषयकत्वेनानुमित्सारूपतया तज्ज्ञानस्य सिषाधयिषाविरहविशिष्टत्वाभावात् कथं प्रतिबन्धकत्वमित्यत आह-भगवत इति । भगवतोऽनुमित्यभावान्न तादृशेच्छेति भावः। धर्मिज्ञानादिविधया वह्निमान् पर्वत इति प्रत्यक्षसामग्र्यन्तर्गताया व्यधिकरणधर्मावच्छिन्नवह्नयभाववान् पर्वत इति प्रमाया या समानविषयकानुमितिप्रतिबन्धकता तदव्यावृत्तेराह-प्रत्यक्षादीति । भगवज्ञानमादायेति । यत्समानाधिकरणसाध्याभावावगाहिनो जन्यज्ञानस्य समूहालम्बनस्यैव प्रतिबन्धकत्वम् , व्यधिकरणधर्मावच्छिन्नाभावस्यैव निरवच्छिन्नवृत्तिकत्वघटितयत्समानाधिकरणत्वसम्भवात् । तदनवगाहिनस्तु न लक्षणघटकत्वमिति तत्त्यागः । आलोकप्रकाशः अनुमित्यभावादिति । तथा च तादृशेच्छाविसंवादिन्येवेति भावः । २४ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215