Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका
न च तादृशप्रकारतासामान्ये स्वाश्रयत्व-स्वाश्रयविषयतानिरूपितत्वान्यतरसम्बन्धावच्छिन्नप्रतियोगिताकप्रतिबन्धकतावच्छेदकत्वाभावस्य विवक्षणान्नोक्तदोष इति वाच्यम्; एवमपि विशिष्टसत्ताभाववान् जातेरित्यादावतिव्याप्तेर्दुरित्वात्। विशिष्टसत्ताभावाभाववद् द्रव्यमित्यादिनिश्चयस्य विशिष्टवैशिष्ट्यावगाहिन एव प्रतिबन्धकत्वेनाभावप्रकारतायास्तदनवच्छेदकत्वादिति । वस्तुतस्तु गौरवादेवं विवक्षा न कृता।
केचित्तु यादृशव्यभिचारिणि हेतुमद्विशेष्यकं समानाधिकरणधर्मावच्छिन्नसाध्याभावप्रकारकशानं भ्रमात्मकं समूहालम्बनात्मकमेव वा जातम्, तादृशव्यभिचारिण्यतिव्याप्तिः, यत्समानाधिकरणसाध्याभावप्रमासामान्यस्य साध्यवत्ताशानाप्रतिबन्धकत्वात् । तथा चेदं लक्षणमयुक्तमेवेति ।
नूतनालोकः अन्यतरसम्बन्धावच्छिन्नेति । इदानीमेकत्र द्वयमिति रीत्या ज्ञानव्यावर्तकविशेषणमुपादेयमेवेत्याशयः । विशिष्टवैशिष्टयावगाहिन एवेति । अभावाभावत्वोपलक्षितस्य सत्तात्मनो विशिष्टसत्ताभावविरोधविरहादिति भावः । तदनवच्छेदकत्वादिति । तादृशनिश्चयस्य स्वावच्छिन्नाधेयतानिरूपकत्वसम्बन्धावच्छिन्नसाध्याभावत्वनिष्ठधर्मिपारतन्त्र्यप्रकारतानिरूपितद्रव्यत्वाद्यवच्छिन्नविशेष्यताशालिनिश्चयत्वेनैव प्रतिबन्धकत्वादिति भावः । यदि तत्र विशेष्यता एकैवेत्युच्यते, तदा तदेकत्र द्वयमिति रीत्या ज्ञानमेवेति तस्य लक्षणाघटकत्वादव्याप्तिः सुतरामिति विशिष्टाभावस्य वैशिष्टयाभावरूपत्वे उक्तदोषाभावादाह-वस्तुतस्त्विति ।
आलोकप्रकाशः योजनत्वात् । न चैवमप्युक्तज्ञानाव्यावृत्तिः, तज्ज्ञानीयायोगोलकत्वनिष्ठप्रकारताया यत्किञ्चित्प्रतियोगितावच्छेदकत्वात् । अतो धर्मितावच्छेदकनिष्ठप्रकारतायां धर्मिविषयतावच्छेदकत्वरूपं धर्मिपारतन्यमेव निवेशनीयम् । तथा च धर्मिविषयतायाः प्रतिबन्धकतावच्छेदकत्वं निर्बाधमेवेति वाच्यम् ; धर्मितावच्छेदकनिष्ठविषयतायाः प्रतियोगिताद्यवच्छेदकत्वाद्विलक्षणमेव धर्मिपारतन्त्र्याभिधमवच्छेदकत्वमिति तस्यैव प्रतिबन्धकतावच्छेदकशरीरे प्रवेशेनोक्तज्ञानव्यावृत्त्या धर्मिविषयतायास्तत्राप्रवेशादिति भावः। यदि चावच्छेदकत्वनिष्ठं वैलक्षण्यं धर्मिविषयतानिरूपितत्वमेव, न तु धर्मिविषयत्वाघटितमित्युच्यते, तदा वक्ष्यमाणविशिष्टसत्ताभावसाध्यकस्थलातिव्याप्तिरेवात्र कल्पे दोषो बोध्यः।
For Private And Personal Use Only

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215