Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
'नच' रत्नमालिका न च तदवच्छेदेन विशिष्टबुद्धौ तदवच्छेद्यत्वं विशेषण एव भासत इति मताभिप्रायेणैव तेषां तदभिधानम् । विशेषणसंसर्ग एव तदवच्छेद्यत्वं भासत इति पक्षे तु तत्र धर्मितानवच्छेदकस्यापि व्यापकत्वभाने वाधकाभावः। तथा च धर्मिविषयतायास्तादृशप्रतिबन्धकतावच्छेदककोटिप्रवेशो व्यर्थ एवेति वाच्यम् ; अत्रावच्छेदकावच्छेदेन साध्यवत्ताज्ञानत्वव्यापकप्रतिवध्यताया एव विवक्षणेनोक्तातिव्याप्त्यनवकाशात् ।
नूतनालोकः तत्प्रसङ्गः, रूपस्य द्रव्यत्वाव्यापकत्वादिति । इति मताभिप्रायेणैवेति । तथा चैतद्भवनाधिकरणतेमनपाकत्वस्य शब्दादनुपस्थित्या तत्र व्यापकतासम्बन्धावच्छिन्नप्रकारतारूपमवच्छेदकत्वभानं न सम्भवतीति भावः । विशेषणसंसर्ग एवेति । वायू रूपवानिति प्रयोगवारणाय रूपप्रतियोगिकत्वविशिष्टसमवायानुयोगिताया एव रूपसम्बन्धत्वावश्यकतया तत्र द्रव्यत्वव्यापकत्वस्य बाधान्न द्रव्यत्वावच्छेदेन रूपवत्ताप्रतीतिः। इत्थं च सप्तच्छदपुष्पोत्पत्तित्वस्य शब्दादनुपस्थितत्वेऽपि तत्र व्यापकत्वनिष्ठसंसतावच्छेदकतावच्छेदकत्वरूपस्यावच्छेदकत्वस्य भानं निराबाधमेवेति भावः । न च घटत्वावच्छेदेन द्रव्यत्वावगाहिन्यां घटो द्रव्यमित्यादिशाब्दबुद्धौ पदार्थतावच्छेदकद्रव्यत्वजातेः स्वरूपत उपस्थिततया केवलसमवायस्यैव प्रवृत्तिनिमित्तताघटकसम्बन्धतया च घटत्वावच्छेद्यत्वभानं न सम्भवतीति व्यापकत्वभाननियम एव दुर्घट इति वाच्यम् ; तत्र द्रव्ये तत्तादात्म्ये वा तदवच्छेद्यत्वभानोपगमात् । तथा चेति । संसर्गाशे धर्मितानवच्छेदकस्यापि व्यापकत्वभानावश्यकतया तत्तद्धर्मव्यापकत्वविशिष्टतत्तत्संसर्गावच्छिन्नप्रकारताया एव तादृशप्रतिबन्धकत्वावश्यकत्वे चेत्यर्थः। अवच्छेदकावच्छेदेनेति । प्रमायां प्रतिबन्धकत्वाभावनिवेशपक्षे घटत्वावच्छिन्नप्रतियोगिताकाभावान्यः पटाभावत्वादित्यादौ घटत्वावच्छिन्नप्रतियोगिताकसाध्याभाववानभाव इत्यादिप्रमामादायाव्याप्त्यापत्तेरेतद्विवक्षणासम्भवेऽपि प्रतिबन्धकत्वाभावनिवेशपक्षे तद्विवक्षणे न किश्चिद्बाधकमिति भावः।
आलोकप्रकाशः न किञ्चिद्वाधकमिति । घटत्वावच्छिन्नप्रतियोगिताकत्वनिष्ठप्रकारतानिरूपिताभावत्वाव च्छिन्नविशेष्यताया एव तादृशप्रतिबन्धकतावच्छेदकतया साध्याभावनिष्ठप्रकारतानिरूपितहेतुपन्निष्ठविशेष्यतायां तदवच्छेदकत्वाभावादिति भावः ।
For Private And Personal Use Only

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215