Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८०
.. 'नच' रत्नमालिका कत्वादन्यस्य संसर्गाशे विशेषणतया भाने मानाभावेन लाघवायापकत्वघटककेवलाभावविशिष्टस्वरूपसम्बन्धावच्छिन्नधूमाभावत्वावच्छिन्नप्रकारतानिरूपितायोगोलक - त्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेनैव प्रतिबन्धकत्वस्य वक्तव्यतया धर्मिविषयिताया अपि तदवच्छेदकत्वात् ।
आलोकप्रकाशः न पश्यतीत्यादिप्रयोगाणामप्युपपत्तिः। अन्धवृत्तित्वाकाशविषयकत्वोभयाभावप्रकारकदर्शनविशेष्यकबोधसम्भवात् । आकाशविषयकदर्शनाभाववानन्ध इति प्रथमान्तार्थमुख्यविशेष्यक बोधस्याप्रसिद्ध या असम्भवात् । इत्थञ्च चैत्रः पचतीत्यादौ प्रथमान्तार्थमुख्यविशेष्यकबोधेऽपि पश्य मृगो धावतीत्यादौ मृगकर्तृकधावनस्य विषयतया दर्शनान्वयेन क्रियाविशेष्यकबोधाऽङ्गीकारेऽपि बाधकाभावः। विशेष्यविशेषणभावस्य तात्पर्यग्रहमात्राधीनतया क्वचिद्धात्वर्थविशेष्यकबोधाङ्गीकारे क्षतिविरहात् । अत एव पचति भवतीत्यादिप्रयोगानुपपत्तिरपि समाहिता। तत्र पाकानुकूलकृतिर्भवतीति भावनाविशेष्यकबाधाङ्गीकारादिति सारम् । एतेन प्रथमान्तमुख्यविशेष्यकबोधनियमे त्वया अत्र कः पच्यते ? इति प्रश्ने, मया तण्डुलस्य पाकः क्रियत इत्युत्तरस्य पाकविशेष्यकबोधजनकस्य प्रश्ननिवर्तकत्वानुपपत्तिः, समानविशेष्यकबोधजनकवाक्यस्यैव प्रश्ननिवर्तकत्वात् । एवं "ब्राझो विवाह आहूय यत् कन्या. दीयते स्वयम्” इति स्मृतिवाक्यादाह्वानपूर्वकं स्वयं कन्यादानं ब्राह्मो विवाह इत्यर्थलाभानुपपत्तिः। यत्तु क्रियामुख्यविशेष्यकबोधाङ्गीकारे उक्तानुपपत्तिविरहेऽपि "प्रयान्ति गुरवस्तेषां पादयोरभिवादये” इत्यादौ तच्छब्दस्य गुणीभूतगुरुपरामर्शकत्वानुपपत्तिः, सर्वनाम्नां प्रधानपरामर्शित्वनियमादिति, तन्न; उक्तनियमस्यौत्सर्गिकत्वेन गुणीभूतार्थस्यापि क्वचित् परामर्श बाधकाभावात् । अन्यथा “दशैते राजमातङ्गास्तस्यै वामी तुरङ्गमाः", "चैत्रो ग्रामगतस्तत्र मैत्रः किं कुरुतेऽधुना", "चैत्र ! प्रजावतीयं मे त्वं तस्मै देहि कम्बलम्" इत्यादौ तच्छब्देन यथाक्रमं राजग्रामभ्रातृपरामर्शानुपपत्तेः । अत एव "अनुमानं निरूप्यते” इप्युपक्रम्य, “तत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः” इत्युक्तम् । तत्र तच्छब्देन निरूपणपरामर्शासम्भवात् “तत्र अनुमाने निरूपणीये" इति व्याख्यातं दीधितिकारैरिति तटस्थानामाशङ्का निराकृता, यथासम्भवं क्रियाप्रथमान्तार्थमुख्यविशेष्यकबोधयोरुक्तरीत्याभ्युपगमसम्भवेनानुपपत्त्यभावात् । अथवा प्रथमान्तपदासमभिव्याहारे उक्तरीतिरेव । तत्समभिव्याहारे च सर्वत्र प्रथमान्तार्थविशेष्यकबोध एव, न चोक्तदोषः । कः कुलीन इति प्रश्ने यस्य धनमिति भिन्नविशेष्यकबोधजनकादप्युत्तरवाक्यात् प्रश्ननिवृत्त्या समानविशेष्यकबोधजनकवाक्यस्यैव प्रश्ननिवर्तकत्वमिति नियमाभावात् । अन्यथा कश्चैत्र इति
For Private And Personal Use Only

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215