Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 198
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १८१ न च संसर्गाशे धर्मितानवच्छेदकस्यापि व्यापकत्वभानमावश्यकम् । अन्यथा शरदि पुष्पन्ति सप्तच्छदा इत्यादि शाब्दबुद्धौ सप्तच्छदपुष्पोत्पत्तित्वस्य धर्मितानवच्छेदकत्वेन संसर्गविधया तव्यापकत्वभानानुपपत्तेः । पुष्पोत्पत्तित्वसामानाधिकरण्यमात्रेण शरवृत्तित्वभानोपगमे शरदि पुष्पन्ति चम्पका इत्यादिप्रयोगापत्तेः। तथा चावच्छेदकावच्छेदेन बाधबुद्धिप्रतिबन्धकतावच्छेदककोटौ तत्तद्धर्मव्यापकत्वविशिष्टतत्तत्सम्बन्धावच्छिन्नप्रकारताया अप्रवेशे शरदि पुष्पन्ति सप्तच्छदा इति शाब्दबुद्धेश्चम्पकपुष्पोत्पत्तिः शरवृत्तिर्न वेति संशयप्रतिबन्धकत्वापत्तिरिति वाच्यम् ; विशेषणसम्बन्धे धर्मितानवच्छेदकस्यापि व्यापकत्वभानोपगमे इह भवने मैत्रेणैव पक्ष्यते तेमनमित्यत्र एतद्भवनाधिकरणकतेमनपाकत्वेन रूपेण शब्दात् पाकानुपस्थित्या तवच्छिन्ने मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वव्यवच्छेदबोधासम्भवकथनस्य दीधितिकृतामसाङ्गत्यापत्तेः। नूतनालोकः प्रयोगापत्तेरिति । शरदि चम्पकानां पुष्पोत्पत्तेरिति भावः। पुष्पोत्पत्तित्वसामानाधिकरण्येनैव शरवृत्तित्वभानलाभाय चम्पकेतिः। विशेषण एव भासत इति । अयमभिप्राय:-विशेषणसंसर्गे व्यापकत्वभानोपगमे द्रव्यत्वावच्छेदेन रूपवत्ताबुद्धेः प्रमात्वप्रसङ्गः, समवाये द्रव्यत्वव्यापकत्वाबाधात् । विशेषणे तद्भानोपगमे तु न आलोकप्रकाशः प्रश्ने यः पाचक इतिवद् यः पचतीति वाक्यस्यापि समानविशेष्यकबोधजनकत्वेनैव प्रश्ननिवर्तकत्वे क्रियाविशेष्यकबोधनियमाङ्गीकर्तृमतेऽप्यगतेः। एवं "ब्राह्मो विवाहः” इति स्मृतिवाक्यस्य तादृशकन्यादानं ब्राह्मो विवाह इति नार्थः, गान्धर्वादिविवाहसाधारण्याय "वह प्रापणे” इति धात्वनुसारेण वरनिष्ठकन्याप्राप्त्यनुकूलविलक्षणव्यापारस्यैव विवाहतया कन्यादानस्य विवाहत्वाभावात् । अत एव स्मृतौ विवाहस्याष्टधा प्रविभागः सङ्गच्छते । सामान्यधर्माक्रान्तानां विशेषरूपेण प्रतिपादनस्यैव विभागत्वात् । किन्तु यद्यस्मै यादृशविवाहात्मकव्यापारायाहूय स्वयं दीयते कन्या स व्यापारो ब्राह्मो विवाह इति । इह भवने मैत्रेणैव तेमनं पक्ष्यत इत्यादावण्येवकारार्थव्यवच्छेदस्योभयत्वावच्छिन्नप्रतियोगिताकतया भानोपगमेनैतद्भवनाधिकरणकमैत्रान्यकर्तृकत्वोभयाभाववत्पाककर्म तेमनमिति प्रथमान्तार्थविशेष्यक एव बोधः । अन्ध आकाशं न पश्यतीत्यादौ च आकाशविषयकत्वाभाववदर्शनाभाववानन्ध इत्येव बोध इति न कोऽपि दोष इति । अधिकन्तु न्यायकौस्तुभादौ द्रष्टव्यमिति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215