Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतना लोकदीका तत्प्रकाशटिप्पण्योपबृंहिता
यद्वा हेतुमन्निष्ठमुख्यविशेष्यतानिरूपितयत्समानाधिकरणसाध्याभावनिष्ठप्रमीय प्रकारता सामान्ये स्वनिरूपित विशेष्यतावच्छेदकावच्छिन्न विशेष्यताक साध्यवत्ताज्ञानसामान्यप्रतिबन्धकतावच्छेदकत्वाभावविवक्षणाददोष इति चेन्मैवम् ; धर्मितावच्छेदकव्यापकत्वं विधेय एव भासत इति पक्षे बाधबुद्धिप्रतिबन्धकतावच्छेदककोटौ धर्मिविषयतायाः प्रयोजनाभावेनाप्रवेशादतिव्याप्त्यापत्तेः । एवं यत्र व्यभिचारिविशेषे व्यभिचारनिरूपकाधिकरणे तत्क्षेत्रादौ तदङ्कराभावस्य भ्रमात्मकं ज्ञानं न जातम्, तत्र बाधज्ञानस्य निरूप्यनिरूप कभावापन्नविषयताशालिनिश्चयस्वेन प्रतिबन्धकत्वकल्पने गौरवात्तदङ्कुराभावविशिष्टतत्क्षेत्रादिविषयकनिश्चयत्वेनैव प्रतिबन्धकत्वस्य कल्पनीयतया तदङ्कराभावविषयतायास्तादृशप्रतिबन्धकतानवच्छेदकत्वादतिव्याप्त्यापत्तेश्च ।
For Private And Personal Use Only
१८३
नूतनालोकः
एकत्र द्वयमिति रीत्या ज्ञानव्यावर्तक विशेषणस्यावच्छेदकावच्छेदेन साध्यवत्ताज्ञानत्वव्यापकत्वस्य चानिवेशेन लाघवादाह - यद्वेति । एतेन अवृत्तिर्विभुत्वादित्यादौ भावाभावसाधारणाभावत्व रूपहेतुमद्वृत्तिधर्मावच्छिन्नविशेष्यकव्यधिकरणधर्मावच्छिन्नप्रतियोगिता कसाध्याभावप्रमाया अपि सामान्यान्तर्गततया तत्समानधर्मितावच्छेदककस्यावच्छेदकावच्छेदेनानाहार्य साध्यवत्ताज्ञानस्याप्रसिद्धयाऽव्याप्ति रिति परास्तम् इदानीं सामानाधिकरण्येन तथाविधसाध्यवत्ताज्ञानमादाय लक्षणसमन्वयसम्भवात् । धर्मितावच्छेदकव्यापकत्वमिति । व्यापकतासम्बन्धेन धर्मिता - वच्छेदकवत्त्वमित्यर्थः । भासत इति । विशिष्टवैशिष्टय मर्यादयेत्यादिः । अप्रवेशादिति । एतत्पक्षे तद्धर्मावच्छिन्नविशेष्यकतद्वत्ताबुद्धिं प्रति तद्धर्मनिष्ठ व्यापकता सम्बन्धावच्छिन्नप्रकारता निरूपिततद्भावत्वावच्छिन्नप्रकार ताशालिनिश्चयत्वेनैव प्रतिबन्धकताया वक्तुं शक्यत्वादिति भावः । द्वितीयकल्पे दूषणमाह - एवमिति ।
आलोकप्रकाशः
व्यापकत्वस्य शब्दादनुपस्थित्या प्रकारतया भानासम्भवाद्वयाचष्टे - व्यापकतासम्बन्धेनेति । शक्यत्वादिति । न चायोगोलकत्वव्यापकधूमाभाववान् घट इत्यादि ज्ञान - व्यावृत्तये धर्मिविषयतायाः प्रवेश आवश्यक एवेति वाच्यम्; विशिष्ट वैशिष्ट्य मर्यादया धर्मितावच्छेदकव्यापकत्वभानस्थले धर्मितावच्छेदकनिष्ठप्रकारताया धर्मिविषयतावच्छेदकत्वरूपधान्यनियमेन धर्मितावच्छेदक निष्ठावच्छेदकीभूतप्रकारतानिरूपिततदभावत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेन प्रतिबन्धकत्वोपगमादुक्तज्ञानव्यावृत्त्या धर्मिविषयतानिवेशस्य निष्प्र

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215