Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 195
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८ 'न च' रत्नमालिका अथ यत्समानाधिकरणसाध्याभावनिष्ठप्रमीयप्रकारतानिरूपितहेतुमन्निष्ठविशेष्यतासामान्ये स्वावच्छेदकावच्छिन्नविशेष्यताकसाध्यवत्ताशानसामान्यप्रतिबन्धकतावच्छेदकत्वाभावः कुतो नेह विवक्षितः, तथा सति पूर्वोपदर्शितस्य समूहालम्बनभिन्नत्वस्य, स्वसमानधर्मितावच्छेदककसाध्यवत्ताशानप्रतिबन्धकतावच्छेदकसाध्यवत्ताज्ञानप्रतिबन्धकतावच्छेदकविषयितानिरूपकतावच्छेदकावच्छिन्नाविषयकत्वस्य वाऽनिवेशनीयतया लाघवात् । नूतनालोकः वृत्तित्वेति । स्वावच्छिन्नाधिकरणत्वसम्बन्धेन स्वव्यापकत्वपर्यवसितेत्यर्थः । तेन प्रतिबन्धकत्वाभावप्रतियोगिताया अव्यासज्यवृत्तितया पर्याप्त्यनभ्युपगमेऽपि न क्षतिः । एतत्सर्वमभिप्रेत्य अलमधिकेनेत्युक्तम् । समूहालम्बनभिन्नत्वस्येति । एकत्र द्वयमिति रीत्या ज्ञानव्यावर्तकविशेषणं तूपादेयमेव । अन्यथा एतत्पक्षे तथाविधज्ञानीयविषयतामादायाव्याप्यवृत्तिसाध्यकस्थलेऽव्याप्त्यापत्तेरिति बोध्यम् । समूहालम्बनभिन्नत्वादेः पूर्वमेव परित्यागादाह-स्वसमानधर्मितावच्छेदकेत्यादि । धर्मितानवच्छेदकत्वेनेति । पुष्पोत्पत्तेः कर्तृतया सप्तच्छदेऽन्वयात् । न च सप्तच्छदा इति प्रथमान्तार्थस्याख्यातार्थद्वारा क्रियायामन्वयोऽस्तु, तथा च धर्मितावच्छेदकत्वं सम्भवत्येवेति वाच्यम्; प्रथमान्तमुख्यविशेष्यकत्वानुपपत्त्या तथा अन्वयासम्भवात् । आलोकप्रकाशः भाख्यातार्थद्वारेति । अयमाशयः-चैत्रः पचतीत्यादौ कर्ता आख्यातार्थः । तत्र प्रथमान्तार्थचैत्रादेरभेदेनान्वयः। तस्य क्रियायां स्वनिष्ठकर्तृतानिरूपकत्वसम्बन्धेनान्वयः, "क्रियाप्रधानमाख्यातम्" इति महाभाष्यात् । न चैवं सति चैत्रो न पचतीत्यादावुक्तसम्बन्धावच्छिन्नप्रतियोगिताकचैत्राभिन्नकप्रभाववान् पाक इति बोधो वक्तव्यः । पाकाभावबोधाङ्गीकारे पचत्यपि चैत्रे तथा प्रयोगप्रसङ्गात् , अन्यत्र पाकाभावसत्त्वात् । तथा च वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकतया अभावाप्रसिद्धिः। एवं चैत्रत्वाद्यपेक्षया चैत्राद्यभिन्नकर्तृत्वस्य गुरुतया तदवच्छिन्नप्रतियोगिताकाभावाप्रसिद्धिः । एवं चैत्रः पचतीत्यादौ कर्तृत्वस्य द्वेधा भानमावश्यकमिति । भिन्न विषयकप्रत्यक्षं प्रति तादृशवाक्यघटितशाब्दसामग्रीप्रतिबन्धकतायां गौरवम् , योग्यताज्ञानादेविविधकर्तृत्वविषयताघटितगुरुरूपेण तत्र प्रवेशनीयत्वादिति वाच्यम् ; क्रियामुख्यविशेष्यकत्रोधाङ्गीकारे बहुतरगौरवसत्त्वेऽपि तस्य प्रमाणिकतया फलमुखतया चादोषत्वादिति । प्रथमान्तमुख्यविशेष्यकत्वानुपपत्तेरिति । न च प्रथमान्तमुख्यविशेष्यकत्वमेवासिद्धम् , "ते For Private And Personal Use Only

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215