Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न' रत्नमालिका यद्वा व्यधिकरणधर्मावच्छिन्नप्रतियोगिता समानाधिकरणधर्मेऽप्यवश्यमुररीकरणीया, अन्यथा घटत्वेन वह्निर्नास्तीत्यादिप्रतीतौ वह्नित्वादेरुपलक्षणतया भानं वक्तव्यमिति तस्यास्तद्विशिष्टवैशिष्टयानवगाहितया तन्निर्विकल्पकानन्तरमप्युत्पत्त्यापत्तेः।
न च वह्नित्वे प्रतियोगितावच्छेदकत्वानवगाहने तनिर्विकल्पकानन्तरंतादृशप्रतीतिरिष्टैव, फलीभूतप्रतीतौ प्रतियोगितावच्छेदकतया यदवभासते, तनिर्विकल्प
नूतनालोकः तादृशयत्किञ्चित्प्रतिबन्धकत्वतदन्यतादृशप्रतिबन्धकत्वोभयाभावाव्यावृत्तिरिति वाच्यम् ; उक्ताभावविषयकप्रतीतौ प्रतियोगिविशेषणतापन्नतादृशोभयत्वस्यैव प्रतियोगितावच्छेदकत्वावगाहनात् , तृतीयया केवलवैशिष्टयस्यैवोल्लेखनात् । न च तादृशप्रतिबन्धकतात्वेन प्रमेयं नास्तीति प्रतीतौ प्रमेयसामान्यनिष्ठत्वेन भासमानप्रतियोगितैव तादृशप्रतिबन्धकत्वं नास्तीति प्रतीतौ प्रतिबन्धकतानिष्ठत्वेन भासते न त्वतिरिक्ता, लाघवात् । तथा च तादृशप्रतिबन्धकत्वाभावाप्रसिद्धथा असम्भव इति वाच्यम् ; तादृशप्रतिबन्धकतात्वेन प्रमेयं नास्तीति प्रतीतौ तादृशप्रतिबन्धकत्वं नास्तीति प्रतीतिसिद्धप्रतिबन्धकतामात्रनिष्ठप्रतियोगिताया एव प्रमेयत्वसामानाधिकरण्येन भानोपगमादुक्ताप्रसिद्धिविरहात् । स्पष्टं चेदम्-"अवृत्तिमात्रवृत्तिगगनत्वादिना" इति ग्रन्थावतरणिकायाम्।
मतान्तरेऽप्रसिद्धेर्लाघवाच्चाह-यद्वेति । तेजस्त्वनिर्विकल्पकानन्तरमन्धकारादेरिदमिति प्रतीतिनिर्वाहाय-फलीभूतप्रतीताविति । तथा च तादृशप्रतीतेस्तेजस्त्वनिर्विकल्पकफलत्वाभावात्तदनन्तरं तादृशप्रतीतिनिर्वाह इति भावः। फलीभूतप्रतीतिविषयाभावप्रतियोगितावच्छेदकनिर्विकल्पकानन्तरमेवाभावप्रतीत्यनुपगमादित्युक्तौ द्रव्याद्यभावे घटत्वाद्यवच्छिन्नप्रतियोगितावच्छेदकत्वसम्बन्धेन घटाद्यवगाहिनो घटो नास्तीत्यादिप्रत्ययस्य
आलोकप्रकाशः व्याख्यायाम्-मतान्तर इति । प्रतिबन्धकतात्वेन प्रमेयं नास्तीति प्रतीतौ प्रमेयसामान्यनिष्ठत्वेन भासमानप्रतियोगितैव प्रतिबन्धकत्वं नास्तीति प्रतीतौ प्रतिबन्धकतानिष्ठत्वेन भासत इति पक्ष इत्यर्थः । .. ननु स्वसमानाधिकरणप्रतियोगिताकत्वसम्बन्धेन प्रतियोगिविशेषणतःपन्नवह्नित्वादेरभावांशे धर्मिपारतन्व्येण भानमुपगम्य विशिष्टवैशिष्टयावगाहित्वोपगमान्न वह्नित्वादिनिर्वि
For Private And Personal Use Only

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215