Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 192
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता Acharya Shri Kailassagarsuri Gyanmandir १७५ न च तादृशप्रतिवध्यतानिरूपितत्व-प्रतिबन्धकता त्वैतदुभयत्वावच्छिन्नस्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगिताकप्रतियोगिताकाभावस्य विवक्षणान्न दोषः, उभयाभावादिप्रतियोगितावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगिताया उभयत्वादिघटितसमुदायत्वेनैवावच्छेदान्न निरुतोभयत्वावच्छिन्नत्वमित्युभयाभावादिव्यावृत्तेरिति वाच्यम्; एवमपि तादृशप्रतिवध्यतानिरूपित प्रतिबन्धकतात्वेन व्यधिकरणधर्मेण घटाद्यभावस्याव्यावृत्तेः, व्यधिकरणधर्मावच्छिन्न प्रतियोगितावच्छेदकतायाः समानाधिकरणधर्मे प्रयोजनाभावादनङ्गीकारेण तत्पर्याप्तर्निरुक्तोभयत्वेनैवावच्छेदादिति चेन्न; प्रतियोगितायां स्वव्याप्यत्व-स्वावच्छिन्नत्वोभयसम्बन्धेन तादृशप्रतिबन्धकतात्वविशिष्टत्वविवक्षणादुक्ताभावव्यावृत्तेः । नूतनालोकः इति पक्तिव्याख्यानावसरे सिद्धान्तलक्षणगादाधर्यामित्यत उक्तम् उभयाभावादीति । आदिना विशिष्टाभावपरिग्रहः । विशिष्ट निरूपितानुयोगिताया अप्यधिकन्त्वित्यादिन्यायेन प्रतिबन्धकतात्वविशिष्टनिरूपितत्वसत्त्वेन तस्या अपि तत्सम्बन्धत्वानपायात् । एतदपि तत्रैव स्फुटम् । अनङ्गीकारेणेति । न च समानाधिकरणधर्मस्य व्यधिकरणधर्मावच्छिन्न प्रतियोगितावच्छेदकत्वानङ्गीकारे घटवति घटत्वेन घटपटोभयं नास्तीति प्रतीतिसिद्धाभावा निर्वाहप्रसङ्ग इति वाच्यम्, तादृशाभावप्रतियोगिताया व्यासज्यवृत्तित्वापगमेन प्रतियोगितावच्छेदकविशिष्टप्रतियोगिता पर्याप्त्यधिकरणवत्त्वस्य विरोधिनोऽप्रसिद्धया तादृशाभावस्य तत्रापि निर्वाहादिति भावः । निरुक्तोभयत्वेनैवावच्छेदादिति । तादृशप्रतिवध्यतानिरूपितत्व - प्रतिबन्धकतात्वोभयत्वेनैवावच्छेदादित्यर्थः । न च प्रतियोगितायां प्रतिबन्धकतानिष्ठत्वस्यापि विवक्षणादुक्ताभावव्यावृत्तिरिति शङ्कयम् ; एवमपि तादृशप्रतिबन्धकतात्वेन तादृशप्रतिबन्धकत्व घटोभयाभावाव्यावृत्तेरित्याशयः । उक्ताभावव्यावृत्तेरिति । न चैवमपि तादृशप्रतिबन्धकतात्वेन आलोकप्रकाशः For Private And Personal Use Only व्याख्यायाम् — सिद्धान्तलक्षणगादाधर्यामिति । तत्रेत्थमभिहितम् - " उभयत्वावच्छिन्ननिरूपितानुयोगिताया मणित्वादिविशिष्ट सम्बन्धताविरहाच्छुद्धानुयोगितासम्बन्धेनैव मणित्वादिविशिष्टस्योभयत्वाद्यवच्छिन्नाभावव्यावर्तकतासम्भवेन तादृशानुयोगितात्वेन सम्बन्धतानुपगमात्" इति । मूले – उभयत्वावच्छिन्नेति । इदञ्चानुयोगिताविशेषणम् ।

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215