Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 190
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नृतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १७३ भावस्य तदन्यत्वावच्छिन्नाजनकस्यापि तदन्यत्वावच्छिन्नोत्पत्तौ प्रयोजकत्वमात्रेणापेक्षितनिर्वाहात् । अन्यथा पटज्ञानान्यघटज्ञानत्वावच्छिन्नोत्पत्तावपेक्षितस्य पटादिज्ञानसामग्र्यभावस्य पटशानान्यज्ञानत्वावच्छिन्नहेतुताप्रसङ्गात् । विपरीतनिश्चयानन्तरं च तेन प्रतिबन्धादेव न प्रत्यक्षम् । विपरीतनिश्चयस्य प्रत्यक्षसाधारणलौकिकसन्निकर्षाद्यजन्यविशिष्टबुद्धित्वावच्छिन्नं प्रत्येव प्रतिबन्धकत्वात् । विपरीतनिश्चयानन्तरं विशेषदर्शनेऽपि तन्नाशानन्तरमेव प्रत्यक्षं जायते । किञ्च, विशेषदर्शनस्य हेतुत्वेऽन्धकारे घटसंशये आलोकसंयोगसमवधानात्तन्निश्चयानुपपत्तिः । एवं कुङ्कुमादौ तैलसंयोगादिरूपव्याकविरहाधीनसौरभादिसन्देहानन्तरं व्यञ्जकसमवधानेऽपि तनिश्चयानुपपत्तिः। न चालौकिकत्वस्य विशेषदर्शनजन्यतावच्छेदकत्वोपगमान्नेयमनुपपत्तिः, तत्र घटसौरभादेौकिकप्रत्यक्षस्यैव विशेषदर्शनं विनोत्पत्तेरिति वाच्यम्; लौकिकसन्निकर्षवत्यपि यत्र विशेषदर्शनसहितदूरत्वादिदोषप्रयुक्तः पुरुषत्वादिसंशयः, तत्र विशेषदर्शने सत्येव लौकिकप्रत्यक्षोत्पत्तेर्विशेषदर्शनजन्यतावच्छेदकरूपस्य लौकिकप्रत्यक्षेऽप्यङ्गीकार्यत्वात् । अत एव विशेषदर्शिनामनुमितिसामग्रीसत्त्वादनुमितिरेव भविष्यति, न प्रत्यक्षमिति कथं तस्य प्रत्यक्षहेतुतेत्याक्षिप्य समानविषये प्रत्यक्षसामग्या बलवत्त्वमिति प्रत्यक्षमेव जायते, नानुमितिरिति मणिकारेण समाहितमुत्पत्तिवादे, विशेषदर्शनस्यालौकिकप्रत्यक्षमात्रहेतुत्वे तादृशप्रत्यक्षसामग्र्या अनुमितिसामग्र्यपेक्षया बलवत्त्वासङ्गतः, अधिकमन्यत्रानुसन्धेयम् । तथा च समानविषयकप्रत्यक्षसामग्रीमादाय नाव्याप्तिरिति । नूतनालोकः बलवत्त्वासङ्गतेरिति । यदि च विपरीतज्ञानोत्तरप्रत्यक्षनिष्ठविशेषदर्शनजन्यतावच्छेदकशरीरेऽलौकिकत्वनिवेशेऽपि न क्षतिः, दूरस्थे धर्मिणि पुरुषत्वादिसन्देहोत्पत्तिक्षण एव लौकिकसन्निकर्षात्तन्निश्चयवारणाय दूरत्वादिदोषसमवधानकालीनप्रत्यक्षेऽपि विशेषदर्शनहेतुताया आवश्यकतया तत एव दूरस्थे धर्मिणि संशयोत्तरमपि विशेषदर्शनं विना पुरुषत्वादिनिश्चयवारणसम्भवादित्युच्यते, तदापि सम्बन्धादिभेदभिन्ननानाविधव्याप्त्यवगाहिविशेषदर्शनावच्छेदकधर्मदर्शनादिसाधारणविशेषदर्श आलोकप्रकाशः मृले-तन्निश्वयानुपपत्तिरिति । विशेषदर्शनरूपकारणविरहादिति भावः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215