Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 191
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका _अथैवमप्यतिव्याप्तिः, समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमायामपि तादृशप्रतिबन्धकत्व-घटोभयाभावस्य सत्त्वात् । तादृशप्रतिबन्धकतात्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावविवक्षणेऽपि नोक्ताभावव्यावृत्तिः, प्रत्येकापर्याप्तस्य समुदायापर्याप्तत्वमिति न्यायेन समुदायस्य प्रत्येकानतिरिक्तत्वमूलकेन घटत्व-तादृशप्रतिबन्धकतात्व-द्वित्वैतत्त्रितयपर्याप्तावच्छेदकताया अपि तादृशप्रतिबन्धकतात्वपर्याप्तत्वावश्यम्भावात् । नहि साध्यवत्ताबुद्धित्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकतात्वमात्रावच्छिन्नत्वस्य तदितरानवच्छिन्नत्वपर्यवसितस्य प्रतियोगिताविशेषणत्वात्तद्वन्यावृत्तिरिति शङ्कयम् ; तथा सति द्वित्वावच्छिन्नभेदस्य प्रत्येकं सत्त्वेन तादृशप्रतिबन्धकतात्वस्यापि तदितरतया तदितरानवच्छिन्नप्रतियोगित्वाप्रसिद्धः। अवच्छिन्नत्वघटोभयाभावमादायोक्ताभावाद्यव्यावृत्तेश्च । . नूतनालोकः नत्वस्यानुगतस्याभावान्न तेन रूपेण हेतुतासम्भवः । इदमेवाभिप्रेत्य अधिकमित्युक्तम् । अन्यत्र अनुमितिगादाधर्याम् । यत्तु विपरीतज्ञानविरोधित्वेन विशेषदर्शनस्य हेतुत्वम् , तच्च रूपमालोकसंयोगादिसाधारणम् , तस्यापि विपरीतज्ञानपरिपन्थित्वादिति विशेषदर्शनविरहेऽप्यालोकसंयोगादितः प्रत्यक्षमुपपद्यत एवेति, तन्न, आलोकसंयोगादेविपरीतज्ञानविरोधित्वे प्रमाणाभावादिति दिक्। __अनुयोगितासम्बन्धन तादृशप्रतिबन्धकता विशिष्टाभाव एवात्र निवेश्यते, तथा चोभयत्वावच्छिन्ननिरूपितानुयोगितायास्तादृशप्रतिबन्धकतात्वावच्छिन्नसम्बन्धताविरहेणैवोभयाभावव्यावृत्तिः । स्पष्टं चैतत् "अभावत्वं चेदमिह नास्ति' आलोकप्रकाशः अनुमितिजनकज्ञानत्वस्यानुगमकत्वशङ्कानिरासायाह व्याख्यायाम्-अवच्छेदकधर्मदर्शनादिति । प्रमाणाभावादिति । चक्षुस्संयोगसत्त्वेऽपि पुरुषादावालोकसंयोगासत्वे तत्सत्वे च दूरत्वादिदोषात् संशयोत्पत्त्या आलोकसंयोगत्वेन विपरीतज्ञानविरोधित्वासम्भवादित्याशयः । अस्तु वा लौकिकप्रत्यक्षकारणान्तरसहितालोकसंयोगत्वेन तथात्वम् । तथापि तस्यात्मनिष्ठोऽन्यः सम्बन्धः । अन्यश्च विशेषदर्शनस्येत्युभयोरनुगतकारणतावच्छेदकसम्बन्धो दुर्वच इत्येकरूपेण हेतुत्वासम्भव इति । एतत्सूचनायैव दिगित्युक्तम् । ___वह्निव्याप्यधूमवत्पर्वतकालीनघटत्वेन वह्नयभाववान् पर्वत इति ज्ञानस्य विशेषदर्शनविधया वह्निमान् पर्वत इति प्रत्यक्षं प्रत्युक्तयुक्त्या हेतुत्वासम्भवान्न पूर्वोक्ताच्याप्तिरिति निगमयति मूले-तथा चेति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215