Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नच' रत्नमालिका वस्तुतस्तु विशेषदर्शनस्य हेतुत्वमुत्तेजकत्वं वा नावश्यकम् , संशयोत्तर विशेषदर्शनासत्त्वे संशयजनककोटिद्वयोपस्थितिधर्मिज्ञानादिघटितसामग्रीबलात् संशयस्यैवोत्पादन संशयान्यज्ञानत्वरूपनिश्चयत्वावच्छिन्नापत्त्ययोगात्। तत्सामध्यभावसहितशानसामान्यसामग्या एव संशयान्यज्ञानत्वावच्छिन्नोत्पत्तिप्रयोजकत्वात ।
न चैवं संशयसामथ्यभावस्य निश्चयोत्पत्तावपेक्षणे संशयप्रयोजकविशेषादर्शनस्याभावो विशेषदर्शनं तन्निश्चये हेतुरित्यायातमिति वाच्यम् । तत्प्रयोजका
नूतनालोकः त्वघटितत्वाघटितत्वाभ्यामेव व्यभिचारवारणे नानन्तर्यप्रवेश इति । तन्न; करादिमान् पुरुष इत्यादिनिश्चयकालीनकरादिमत्त्वरूपावच्छेदकधर्मनिश्चयस्यापि पुरुषत्वादिनिश्चायकतया तजन्यनिश्चये विपरीतज्ञानाभावव्यभिचारस्यानन्तर्यमनिवेश्य दुर्वारत्वात् । करादिमत्त्वावच्छिन्नाविशेष्यकत्वस्य विपरीतज्ञानाभावजन्यतावच्छेदकत्वे करादिमान् पुरुष इत्यादिनिश्चयशून्यकालीनकरादिमत्ताग्रहोत्तरजातस्य करादिमानयं पुरुष इत्यादिप्रत्यक्षस्यासंग्रहप्रसङ्गात् । तन्नाशानन्तरमेवेति । स्पष्टं चेदं बाधशिरोमणी ।
आलोकप्रकाशः तदनुत्तरं तु न तथेति। विशेषदर्शनानुत्तरन्तु प्रत्यक्षं न व्याप्यधर्मावच्छिन्नविशेष्यकमित्यर्थः । भानन्तर्यमनिवेश्येति । अभावप्रतियोगितया विपरीतज्ञानाभावजन्यतावच्छेदककोटावानन्तर्यमनिवेश्येत्यर्थः । नन्ववच्छेदकधर्मदर्शनोत्तरप्रत्यक्षे व्याप्यत्वेनानुपस्थितधर्मस्य धर्मितावच्छेदकतया अभानेऽपि व्याप्यत्वाविशेषितकरादेस्तथा भाने बाधकामावादुभयत्रापि करायवच्छिन्नविशेष्यकत्वमक्षतमेवेति तदनवच्छिन्नविशेष्यकत्वस्य जन्यतावच्छेदकत्वस्वीकाराद्वयभिचाराभावान्नानन्तर्यनिवेशावश्यकतेत्याशङ्कयाह करादिमत्त्वेति । इत्यादिनिश्चयशून्यकालीनेति । इत्याद्यवच्छेदकत्वनिश्चयाभावदशायामित्यर्थः ।
दीधितिकृन्मतमाह मूले-वस्तुसस्त्विति। तत्सामध्यभावसहितेति । न च संशयसामध्यभावस्यापेक्षणे संशयसामग्याः प्रतिबन्धकत्वमेवायाति, तद्वरं विशेषदर्शनहेतुत्वमेवेति वाच्यम् ; विशेषदर्शनस्य हेतुत्वे व्यभिचारवारणाय स्वत्वघटितस्य विपरीतज्ञानोत्तरत्वस्य कार्यतावच्छेदककोटाववश्यं निवेशनीयतया तत्तद्वयक्तिविश्रमापत्तेः । व्याख्यायाम्-स्पष्टं चेदं बाधशिरोमणाविति । तत्रेत्थमभिहितम्-"विशेषदर्शनेन तन्नाशानन्तरमेव प्रत्यक्षोदयात्" इति ।
For Private And Personal Use Only

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215