Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ 'न च' रत्नमालिका कल्पनापेक्षया विशेषदर्शनस्य हेतुत्वकल्पनमेवोचितमिति वाच्यम्; व्याप्तेः सम्बन्धादिभेदेन भिन्नतया व्याप्यदर्शनस्याननुगमेन व्यभिचारात्त तुताकल्पनासम्भवात्, नानाविधविशेषदर्शनाभावकूटविशिष्टविपरीतशानाभावस्थानुगतत्वाच्च । एवमसत्यपि विशेषदर्शने विपरीतज्ञानासत्त्व इव तत्सत्त्वेऽपि सामग्रीबलात् प्रत्यक्षसामान्यापत्तिारैवेति, विपरीतज्ञानानुत्तरप्रत्यक्षे संशयसाधारणविपरीतशानाभावस्य विशेषसामग्रीत्वमावश्यकमिति गौरवम् ।
नुतनालोकः गौरवमिति । न च नानाविधविशेषदर्शनाभावानां विपरीतनिश्चयप्रतिबन्धकतावच्छेदकगर्भनिवेशे एकाभावविशिष्टत्वेनैवापराभावस्य निवेशनीयतया
आलोकप्रकाशः सम्बन्धादीति । आदिना धर्मपरिग्रहः । विशेषसामप्रीत्वमावश्यकमिति । विशेषसामग्रीत्वस्वीकारेऽन्यतरसामग्रीसहकारेणैव सामान्यसामग्याः फलोपधायकत्वमिति वक्तुं शक्यत्वान्न सामान्यसामग्रीमात्रेण ग्राह्यप्रत्यक्षत्वरूपसामान्यधर्मावच्छिन्नापत्तिरिति भावः । न चापाद्यमानस्य प्रकृते विपरीतज्ञानोत्तरत्वेन विशेषदर्शनकार्यतावच्छेदकाक्रान्तत्वात्तदभावे कथमापत्तिरिति वाच्यम् ? आपाद्यमानव्यक्तेर्यत्कारणकार्यतावच्छेदकाक्रान्तत्वम् , तद्विरहेणापत्तिवारणे बाधनिश्चयादेविशिष्टबुद्धित्वावच्छिन्नं प्रति प्रतिबन्धकत्वसिद्धान्तभङ्गापत्तिः, वह्निव्याप्यवत्तापरामर्शादेवह्नयनुमितित्वावच्छिन्नहेतुतासिद्धान्तभङ्गापत्तिश्च । तथाहि-बाधनिश्चयाभावस्य बाधनिश्चयानुत्तरबुद्धित्वावच्छिन्नं प्रति हेतुत्वस्वीकारमात्रेण परामर्शोत्तरबुद्धित्वावच्छिन्नं प्रति परामर्शस्य हेतुत्वस्वीकारमात्रेण चोपपत्तौ सत्यां कार्यतावच्छेदककोटौ विषयादिनिवेशानर्थक्यस्य प्रसङ्गात् । न च बाधादिनिश्चयदशायां तद्वत्ताबुद्धयापत्तिः, परामर्शशून्यतादशायामनुमित्यापत्तिश्च सम्भवति, वस्तुत आपाद्यमानतद्वत्ताबुद्धयादेधिनिश्चयोत्तरमसम्भवेन बाधनिश्चयाभावकार्यतावच्छेदकाक्रान्तत्वनियमात् , एवमापाद्यमानानुमितेः परामर्शशून्यतादशायामसम्भवेन परामर्शकार्यतावच्छेदकाक्रान्तत्वनियमात् । एवं मन्त्रौषध्यादीनामपि स्वोत्तरदाहादिकं प्रति हेतुत्वकल्पनेनैवोपपत्तावृत्तेजकत्वसिद्धान्तभङ्गः । एवमवच्छेदकधर्मदर्शनादीनां शानविशिष्टज्ञानत्वेन प्रतिबन्धकतासिद्धान्तविरोधः। तत्र जलवान् वह्नयभाववानिति शानस्य जलवान् ह्रद इति ज्ञानस्य च स्वानुत्तरबुद्धिं प्रति प्रतिबन्धकत्वकल्पनेनैव ज्ञानद्वयकाले तद्वत्ताबुद्धयापत्तिवारणसम्भवादिति तद्धर्मावच्छिन्ने जननीये तद्धर्म प्रति व्यायव्यापकभावापन्नधर्मावच्छिन्नजनकसामग्र्या एव सहकारित्वमित्यवश्यमङ्गीकार्यत्वात् । वस्तुतस्तु व्याप्यव्यापकभावापन्नधर्मावच्छिन्नजनकसामग्र्या न पृथग निवेशः। किन्तु
For Private And Personal Use Only

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215