SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ 'न च' रत्नमालिका कल्पनापेक्षया विशेषदर्शनस्य हेतुत्वकल्पनमेवोचितमिति वाच्यम्; व्याप्तेः सम्बन्धादिभेदेन भिन्नतया व्याप्यदर्शनस्याननुगमेन व्यभिचारात्त तुताकल्पनासम्भवात्, नानाविधविशेषदर्शनाभावकूटविशिष्टविपरीतशानाभावस्थानुगतत्वाच्च । एवमसत्यपि विशेषदर्शने विपरीतज्ञानासत्त्व इव तत्सत्त्वेऽपि सामग्रीबलात् प्रत्यक्षसामान्यापत्तिारैवेति, विपरीतज्ञानानुत्तरप्रत्यक्षे संशयसाधारणविपरीतशानाभावस्य विशेषसामग्रीत्वमावश्यकमिति गौरवम् । नुतनालोकः गौरवमिति । न च नानाविधविशेषदर्शनाभावानां विपरीतनिश्चयप्रतिबन्धकतावच्छेदकगर्भनिवेशे एकाभावविशिष्टत्वेनैवापराभावस्य निवेशनीयतया आलोकप्रकाशः सम्बन्धादीति । आदिना धर्मपरिग्रहः । विशेषसामप्रीत्वमावश्यकमिति । विशेषसामग्रीत्वस्वीकारेऽन्यतरसामग्रीसहकारेणैव सामान्यसामग्याः फलोपधायकत्वमिति वक्तुं शक्यत्वान्न सामान्यसामग्रीमात्रेण ग्राह्यप्रत्यक्षत्वरूपसामान्यधर्मावच्छिन्नापत्तिरिति भावः । न चापाद्यमानस्य प्रकृते विपरीतज्ञानोत्तरत्वेन विशेषदर्शनकार्यतावच्छेदकाक्रान्तत्वात्तदभावे कथमापत्तिरिति वाच्यम् ? आपाद्यमानव्यक्तेर्यत्कारणकार्यतावच्छेदकाक्रान्तत्वम् , तद्विरहेणापत्तिवारणे बाधनिश्चयादेविशिष्टबुद्धित्वावच्छिन्नं प्रति प्रतिबन्धकत्वसिद्धान्तभङ्गापत्तिः, वह्निव्याप्यवत्तापरामर्शादेवह्नयनुमितित्वावच्छिन्नहेतुतासिद्धान्तभङ्गापत्तिश्च । तथाहि-बाधनिश्चयाभावस्य बाधनिश्चयानुत्तरबुद्धित्वावच्छिन्नं प्रति हेतुत्वस्वीकारमात्रेण परामर्शोत्तरबुद्धित्वावच्छिन्नं प्रति परामर्शस्य हेतुत्वस्वीकारमात्रेण चोपपत्तौ सत्यां कार्यतावच्छेदककोटौ विषयादिनिवेशानर्थक्यस्य प्रसङ्गात् । न च बाधादिनिश्चयदशायां तद्वत्ताबुद्धयापत्तिः, परामर्शशून्यतादशायामनुमित्यापत्तिश्च सम्भवति, वस्तुत आपाद्यमानतद्वत्ताबुद्धयादेधिनिश्चयोत्तरमसम्भवेन बाधनिश्चयाभावकार्यतावच्छेदकाक्रान्तत्वनियमात् , एवमापाद्यमानानुमितेः परामर्शशून्यतादशायामसम्भवेन परामर्शकार्यतावच्छेदकाक्रान्तत्वनियमात् । एवं मन्त्रौषध्यादीनामपि स्वोत्तरदाहादिकं प्रति हेतुत्वकल्पनेनैवोपपत्तावृत्तेजकत्वसिद्धान्तभङ्गः । एवमवच्छेदकधर्मदर्शनादीनां शानविशिष्टज्ञानत्वेन प्रतिबन्धकतासिद्धान्तविरोधः। तत्र जलवान् वह्नयभाववानिति शानस्य जलवान् ह्रद इति ज्ञानस्य च स्वानुत्तरबुद्धिं प्रति प्रतिबन्धकत्वकल्पनेनैव ज्ञानद्वयकाले तद्वत्ताबुद्धयापत्तिवारणसम्भवादिति तद्धर्मावच्छिन्ने जननीये तद्धर्म प्रति व्यायव्यापकभावापन्नधर्मावच्छिन्नजनकसामग्र्या एव सहकारित्वमित्यवश्यमङ्गीकार्यत्वात् । वस्तुतस्तु व्याप्यव्यापकभावापन्नधर्मावच्छिन्नजनकसामग्र्या न पृथग निवेशः। किन्तु For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy