________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता दर्शनाभावविशिष्टसंशयसाधारणविपरीतज्ञानत्वेन विशिष्टबुद्धिं प्रति प्रतिबन्धकतयैवोपपत्तेस्तद्धेतुत्वानावश्यकत्वात् ।।
न चैवं बाधनिश्चयकाले लिङ्गपरामर्शात्मकविशेषदर्शनादनुमित्यापत्तिविशिष्टाभावसत्त्वात्। एवं निश्चयत्वानिवेशात् संशयोत्तरंसंशयानुपपत्तिः, योग्यतासंशयस्य शाब्दबोधप्रतिबन्धकतापत्तिश्च, प्रतिवध्यतावच्छेदकगर्भ निश्चयत्वप्रवेशेन संशयोत्तरसंशयोपपादने बाधनिश्चयोत्तरमपि संशयापत्तिरिति वाच्यम् ; परोक्षशाने बाधनिश्चयस्य प्रतिबन्धकत्वान्तरकल्पनेन बाधनिश्चयदशायामनुमित्यापत्तिवारणात्, प्रत्यक्षनिश्चयत्वस्यैव च संशयादिसाधारणविपरीतज्ञानप्रतिवध्यतावच्छेदकतया ग्राहासंशयोत्तरं संशयशाब्दबोधाधुपपत्तेः।
न च प्रत्यक्षनिश्चयान्यबुद्धौ विपरीतनिश्चयत्वेन प्रतिबन्धकत्वान्तरस्यैतन्मतेऽप्यावश्यकत्वेन प्रत्यक्षनिश्चये विशेषदर्शनाभावविशिष्टविपरीतशानाभावहेतुता
नूतनालोकः कालीनप्रत्यक्षेऽपि विशेषदर्शनस्य हेतुत्वान्तरं विपरीतज्ञानवत्तादृशदोषाणां च प्रतिबन्धकत्वमिति । उपपत्तेरिति । भ्रमदशायां विशेषदर्शनस्य सत्त्वे प्रत्यक्षनिश्चयस्यासत्त्वे तदभावस्य चोपपत्तेरित्यर्थः।
निश्चयत्वानिवेशादिति । प्रतिवध्यतावच्छेदकादिकोटावित्यादिः । अनुमित्यापत्तिवारणादिति । न चैवं बाधनिश्चयोत्तरं संशयस्यापत्तिः; अनुमित्यादिसाधारणबाधनिश्चयप्रतिवध्यतावच्छेदकगर्भे प्रत्यक्षनिश्चयान्यत्वस्य प्रवेशनीयतया संशयस्य बाधनिश्चयप्रतिवध्यत्वोपपत्तेः।
__ आलोकप्रकाशः अपिना भ्रमोत्तरप्रत्यक्षपरिग्रहः । हेतुस्वान्तरमिति । स्वविषयनिरूपितं यदूरत्वम् , तद्विशिष्टखाधिकरणतासम्बन्धेन स्थाणुल्वप्रकारकौकिकप्रत्यक्षत्वावच्छिन्नं प्रति विशेषदर्शनं कारणमिति निष्कर्षः । दूरत्ववैशिष्ट्यं स्वाश्रयशरीरावच्छिन्नत्व-खावच्छेदककालावच्छिन्नत्वोभयसम्बन्धेन । इत्थं च समीपस्थपुरुषस्य विना विशेषदर्शनं स्थाणुत्वादिप्रत्यक्षनिर्वाहः ।
___ संशयस्यापत्तिरिति । परोक्षजानं निश्चयात्मकमेवेति सिद्धान्तेन संशयस्याप्रतिवध्यत्वादिति भावः।
मूले-हेतुत्वकल्पनमेवेति । विपरीतज्ञानोत्तरप्रत्यक्षनिश्चयत्वावच्छिन्नं प्रतीत्यादिः । उचितमिति । लाघवाद्विनिगमनाविरहाप्रसक्त्या कार्यकारणभावद्वयस्थानावश्यकत्वाच्चेति भावः ।
For Private And Personal Use Only