________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
'न च' रत्नमालिका एवं शङ्खः श्वेत इति चाक्षुषनिश्चयोत्पत्तौ सत्यां यत्र दोषसमवधानम् , तत्र तादृशनिश्चयसत्त्वे यदि दोषान्न शङ्खो न श्वेत इति चाक्षुषनिश्चयस्तदा तन्निर्वाहोऽपि, समानेन्द्रियजन्यविपरीतनिश्चयस्य प्रतिबन्धकत्वादेव । अत एव साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनमेव विरोधीत्यनेन मणिकृतां "दोषविशेषजन्यभ्रमे समानेन्द्रियजन्यलौकिकग्राह्याभावशानस्य विरोधिता नान्यविधविपरीतज्ञानस्य" इत्यभिधानं सङ्गच्छते । शङ्खो न श्वेत इत्यादिनिश्चयानन्तरं सति विशेषदर्शने चाक्षुषसामग्रीविगमे शङ्खः श्वेत इत्यादि मानसज्ञानमिष्यत एव । अस्तु वा तादृशमानसादिसाधारणं लौकिकनिश्चयान्यज्ञानत्वमेवानुमितिसाधारणं विपरीतनिश्चयप्रतिवध्यतावच्छेदकम् । यत्र सत्यपि चक्षुरादेः सन्निकर्षे कराद्यदर्शनसहितदूरत्वादिदोषादयं स्थाणुरित्यादि भ्रमः, तत्र करादिदर्शने सति नायं स्थाणुरित्यादिलौकिकनिश्चयो जायते । तत्रैव भ्रमोत्तरप्रत्यक्षे विशेषदर्शनहेतुतेत्याहुः । तन्न; विशेष
- नूतनालोकः तदंशेऽपि लौकिकत्वात्तदशायां शङ्खः श्वेत इति प्रत्यक्षानुत्पादनिर्वाहः । प्रतिबन्धकत्वादेवेति । तथा चात्र दोषस्याभावान्न तत्प्रतिबन्धकतया निर्वाह इति भावः । इष्यत एवेति । विशेषदर्शनेन शङ्खो न श्वेत इति निश्चयनाशे विशेषदर्शनेन प्रतिबन्धात्तादृशनिश्चयान्तरस्य चानुत्पत्त्या तादृशमानसोत्पादस्यावश्यकतया विना क्षणविलम्ब तदुत्पादोपगमेऽनुभवविरोधविरहादिति भावः। नन्वेवं विशेषदर्शनहेतुताविलयप्रसङ्ग इत्यत आह-यत्रेति । भ्रमोत्तरप्रत्यक्ष इति । भ्रमपदेन संशयस्यापि परिग्रहः । ननु तत्र भ्रमोत्पत्तिक्षणे न कथं तादृशलौकिकज्ञानम् ? विपरीतज्ञानोत्तरप्रत्यक्ष एव विशेषदर्शनस्य हेतुतया तदुत्पत्तिक्षणे प्रत्यक्षोत्पत्तौ तद्विरहस्याकिश्चित्करत्वात् । यदि च दूरत्वादिदोषेण प्रतिबन्धान्न तदानीं तदुत्पादापत्तिरिति मन्यते, तदा भ्रमोत्तरं विशेषदर्शनात् कथं तदुत्पत्तिस्तदानीमपि तदोषसत्त्वादिति चेन्न; विशेषदर्शनासहितस्यैव दूरत्वादेः प्रतिबन्धकत्वोपगमेनोभयोपपत्तेः । अस्तु वा तादृशदोषसमवधान
आलोकप्रकाशः अभावादिति । विपरीतनिश्चयस्यात्र प्रमात्वेन दोषाजन्यत्वादिति भावः । तादृशमानसोत्पादस्येति । विशेषदर्शनतृतीयक्षण इत्यादिः । उभयोपपत्तेरिति । दूरत्वादिदोषसत्त्वे विशेषदर्शनाभावदशायामप्रत्यक्षस्य तदशायां प्रत्यक्षस्य चोपपत्तेरित्यर्थः । विशेषदर्शनाभावविशिष्टदुरत्वादेः प्रतिबन्धकत्वे उत्तेजकत्वापत्तेर्लाघवाचाह--अस्तु वेति । तादृशदोषेति । दूरत्वमन्दान्धकारादिदोषेत्यर्थः । प्रत्यक्षेऽपीति।
For Private And Personal Use Only