________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता
१६७
रेकाभ्यां विपरीतज्ञानानन्तरप्रत्यक्षनिश्चयत्वावच्छिन्नं प्रति ग्राह्यव्याप्यवत्तानिश्चयत्वेन हेतुत्वं कल्प्यते।
न च ग्राह्याभावशानेन प्रतिबन्धादेव विपरीतनिश्चयाद्यनन्तरं प्रत्यक्षनिश्चयानुत्पत्तिनिर्वाहे किं विशेषदर्शनस्य हेतुतयेति वाच्यम्; विपरीतनिश्चयादिसत्त्वेऽपि विशेषदर्शने प्रत्यक्षनिश्चयोत्पत्त्या प्रत्यक्षनिश्चये ग्राह्याभावग्रहस्याप्रतिबन्धकत्वात् । विपरीतनिश्चयकालेऽनुमित्यादेर्वारणाय विपरीतनिश्चयस्य विशिष्टधीविरोधित्वकल्पनाया आवश्यकत्वेऽपि प्रत्यक्षनिश्चयान्यत्वस्यैव तत्प्रतिवध्यतावच्छेदकत्वोपगमात् ।
न च प्रत्यक्षनिश्चयं प्रति विपरीतशानस्याप्रतिबन्धकत्वे शङ्खो न श्वेत इत्यादि दोषजन्यविपरीतनिश्चयकाले श्वैत्यव्याप्यशङ्खत्वादिदर्शनात् शङ्खः श्वेत इत्यादि चाक्षुषापत्तिरिति वाच्यम् ; तादृशदोषस्यैव श्वैत्यादिग्रहप्रतिबन्धकत्वात् । यदि च विनश्यदवस्थापन्नदोषजन्यविपरीतनिश्चयसत्त्वे न श्वैत्यादिप्रत्यक्षम् , तदास्तु प्रत्यक्षे समानेन्द्रियजन्योपनीतभानभिन्नविपरीतनिश्चयस्य प्रतिबन्धकत्वम् ।
नूतनालोकः कार्यव्यतिरेकप्रयोजकीभूताभावप्रतियोगिन एव कारणत्वम्। विपरीतज्ञानदायां विपरीतज्ञानाभावघटितस्वेतरनिखिलकारणसत्त्वमेव नास्तीति विशेषदर्शनस्यान्यथासिद्धत्वमेवेति भावः । ग्रहस्य ज्ञानत्वावच्छिन्नस्य । अप्रतिबन्धकत्वादिति । तथा च व्यतिरेकव्यभिचारेण विपरीतज्ञानाभावस्य हेतुत्वाभावान्निखिलकारणसत्त्वं प्रकृते निर्बाधमेवेति भावः । निश्चयान्यत्वस्यैवेति । विपरीतनिश्चयोत्तरं संशयानुत्पत्त्या प्रत्यक्षान्यत्वस्येति नोक्तम् । तत्प्रतियोगितावच्छेदकत्वोपगमादिति । तथा च तादृशप्रतिबन्धकतयापि न विपरीतनिश्चयाद्यनन्तरं प्रत्यक्षनिश्चयानुत्पत्तिनिर्वाह इति भावः ।
___समानेन्द्रियेति । चक्षुषा वंशे उरगत्वभ्रमेऽपि त्वचा तत्र तदभावग्रहात् समानेन्द्रियजन्यत्वनिवेशनम् । प्रतिबन्धकत्वमिति। तथा च शजो न श्वेत इति भ्रमे शङ्खांशेऽनुभूयमानस्यैव पित्तद्रव्यनिष्ठश्वैत्याभावस्यारोपोपगमेन
आलोकप्रकाशः मूले--उपनीतभानभिन्नेति । लौकिकेत्यर्थः। तेन सामान्यलक्षणाधीनविपरीतनिश्चयस्याप्रतिबन्धकत्वेऽपि न क्षतिः। मणौ साक्षात्कारिविशेषदर्शनमित्यस्य समानेन्द्रियजन्यं ग्राह्याभावादिप्रकारकलौकिकप्रत्यक्षमित्यर्थः । व्याख्यायाम्-दोषस्येति । विपरीतनिश्चयजनकदोषस्येत्यर्थः ।
For Private And Personal Use Only