________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__'न च' रत्नमालिका वश्यकतया समानविषयकप्रत्यक्षान्यज्ञानप्रतिबन्धकतामादायाव्याप्तेqारत्वादिति चेन्मैवम् ; विशेषदर्शनाभावविशिष्टसंशयसाधारणविपरीतज्ञानस्य प्रतिबन्धकत्वस्वीकारेणैवोपपत्तौ तत्र विशेषदर्शनहेतुताया एवाप्रामाणिकत्वात् ।
केचित्तु विरोधिनिश्चयानन्तरं ग्राहासंशयानन्तरञ्च विना ग्राह्यव्याप्यवत्ताशानं पुरुषत्वादिनिश्चयो नोत्पद्यते, सति तु तस्मिन् जायते । अतोऽन्वयव्यति
नूतनालोकः स्वीकारात्। यद्यपि विशेषदर्शनविरहदशायामनुमितिसामग्या एवाभावेन विशेषणज्ञानादेरिव तस्याप्यनुमितिप्रतिबन्धकसामग्रीघटकत्वं व्यर्थम्,तथापि शाब्दप्रतिबन्धकसामग्रीशरीरे तत्प्रवेश आवश्यकः । अन्यथा तद्विरहदशायां शाब्दानुपपत्तेः । न च प्रतिबन्धकसामध्या विशेषदर्शनघटितत्वाघटितत्वाभ्यां भेदेन प्रतिवध्यतावच्छेदकभेदेन च प्रतिवध्यतयोर्भेदान्न कस्या अपि तस्याः साध्यवत्ताज्ञानत्वव्यापकत्वमिति वाच्यम् ; यत्रकविधयैवेच्छया प्रतिबन्धकसामग्रीसमवधानकाले शाब्दानुमिती तत्र लाघवेनोभयसाधारणपर्वतत्वावच्छिन्नमुख्यविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताशलिप्रत्यक्षान्यज्ञानत्वावच्छिन्नं प्रति विशेषदर्शनघटितसामच्या एकविधप्रतिबन्धकत्वस्यैव कल्पनीयत्वादित्याशयः । उपपत्तौ संशयोत्तरं प्रत्यक्षनिश्चयानुत्पादनिर्वाहे ।
मिश्रानुयायिनां मतमाह-केचित्त्विति । पुरुषत्वादिनिश्चयः प्रात्यक्षिकपुरुषत्वादिनिश्चयः। किं विशेषदर्शनस्य हेतुतयेति । स्वव्यतिरिक्तनिखिलकारणसत्त्वसमानकालीन
आलोकप्रकाशः प्रसङ्गः। विरोधिज्ञानाप्रतिबन्धकत्वप्रसङ्गश्च, प्रकारतादीनामेव तादृशप्रतिवध्यप्रतिबन्धकभावावच्छेदकत्वादिति दिक्” इति प्राहुः । व्याख्यायाम्-प्रतिबन्धकसामग्रीप्रवेश इति । सामग्रीविधया या प्रतिबन्धकता, तदवच्छेदककोटिप्रवेश इत्यर्थः । भावश्यकतत्प्रवेश इति । आवश्यकस्त प्रवेशः प्रतिबन्धकसामग्रीप्रवेशो यस्य तादृशं यद्विशेषदर्शनं तद्रूपतासम्पादनायेत्यर्थः । विशेषदर्शनघटितरवाघटितत्वाभ्यां भेदेनेति । शाब्दिप्रतिबन्धकीभूतायाः प्रत्यक्षसामग्या विशेषदर्शनघटितत्वात् , अनुमितिप्रतिबन्धकतायाश्च तस्या उक्तयुक्त्या तदघटितत्वाच्च भेदो बोध्यः । उत्तेजकेच्छाभेदस्याप्युपलक्षणमेतत् । प्रतिवध्यतावच्छेदकभेदेनेति । शाब्दत्वानुमितित्वयोरेव तदवच्छेदकत्वादिति भावः । एकविधयैवेति । प्रत्यक्षान्यज्ञानं भूयादित्याकारिकयैवेत्यर्थः । अन्यथोत्तेजकभेदेन प्रतिवध्यप्रतिबन्धकभावभेदस्य दुरितापत्तेरिति भावः। प्रकारताशालीति । इदश्च विशेषणमसमानविषयकशाब्दादिव्यावृत्यर्थम् ।
For Private And Personal Use Only