________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता
१६५ न च पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितवह्नित्वावच्छिन्नविधेयताया एव तादृशसामग्रीप्रतिवध्यतावच्छेदकतया प्रत्यक्षादिसाधारणसाध्यवत्ताज्ञानत्वं प्रति उक्तसम्बन्धेन तादृशप्रतिवध्यताया व्यापकत्वमेव नास्तीति वाच्यम् ; एवमपि भिन्नविषयकप्रत्यक्षं प्रति शाब्दसामग्रयाः प्रतिबन्धकतया तामादायाव्याप्ते१र्वारत्वात् । तन्निरूपितप्रतिवध्यतावच्छेदककोटौ प्रकारताया एव प्रवेशेन तादृशप्रतिवध्यतायास्तथात्वाक्षतेः।
न च प्रत्यक्षीयविषयिताया एव तादृशप्रतिवध्यतावच्छेदकतया वह्नित्यावच्छिन्नविधेयतायास्तदप्रसक्त्या तादृशप्रतिवध्यताया उक्तसम्बन्धेन साध्यवत्ताशानत्वाव्यापकत्वान्न ताशप्रतिबन्धकतामादायाव्याप्तिप्रसक्तिरिति वाच्यम् ; एवमपि वह्निव्याप्यधूमवत्पर्वतकालीनघटत्वेन वह्नयभाववान् पर्वत इत्यादिप्रमाया अपि विशेषदर्शनविधया संशयोत्तरप्रत्यक्षं प्रति हेतुत्वेन प्रत्यक्षसामग्रीघटकत्वा
नूतनालोकः वह्नित्व वच्छिन्नविधेयताया एवेति । पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताया वह्निमत्पर्वतो घटवानित्यादिभिन्नविषयकानुमित्यादिसाधारण्यादिति भावः । नास्तीति । विधेयताया अनुमितिशाब्दमात्रवृत्तित्वादिति भावः ।
प्रत्यक्षीयविषयिताया एवेति । प्रत्यक्षस्यैव प्रतिवध्यत्वेन तस्या एव प्रतिवध्यविशेषणत्वादिति भावः। विशेषणज्ञानादेहेतुत्वेऽप्युक्तरीत्या तस्य प्रतिबन्धकसामग्रीप्रवेशे प्रयोजन विरहादावश्यकतत्प्रवेशविशेषदर्शनरूपतासम्पादनाय वह्निव्याप्यधूमवत्पर्वतकालीनेति । हेतुत्वेनेति । इदश्च मिश्रमतेन । उपाध्यायप्रभृतिभिः संशयप्रतिबन्धकतायामुत्तेजकत्वस्यैव
आलोकप्रकाशः मूले-साध्यवत्ताज्ञानत्वाव्यापकत्वादिति । अनुमितीयविधेयताप्रकारतयोरैक्यात् प्रत्यक्षीयविषयताया अनुमितिसाधारण्यासम्भवादिति भावः । वस्तुतस्तु तयोर्भद एव । अत एव लाघवोपनीतकाञ्चनमयत्वभानस्थले विधेयतावच्छेदकत्वं वह्नित्वस्यैव, न तु प्रकारतावच्छेदकीभूतकाञ्चनमयत्वस्येति सिद्धान्तः सङ्गच्छते । तथा च प्रत्यक्षीयविषयताया अनुमितिसाधारण्ये बाधकाभाव इति ध्येयम् । भट्टाचार्यास्तु विषयतावादे "इदं त्ववधेयम्" इत्युपक्रम्य "अस्तु विधेयत्वमुद्देश्यत्वं चातिरिक्तम् , तयोविषयतात्वे मानाभावः । पर्वतो वह्निमानित्यनुमितौ पर्वतवह्नयादिषु तथाविधप्रत्यक्षसाधारणविशेष्यताप्रकारतास्वीकारस्यावश्यकतया तत एव तादृशज्ञानस्यसविषयकत्वोपपत्तेः । प्रकारतादीनां तत्रानुपगमे तादृशानुमित्यादीनां बाधाद्यप्रतिवध्यत्व
For Private And Personal Use Only