________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
___'नच' रत्नमालिका अथ स्वावच्छेदकविषयितासम्बन्धेन व्यापकत्वविवक्षणे पदार्थोपस्थित्यादिविधया शाब्दबोधं प्रति हेतुभूताया व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववान् पर्वत इति शाब्दप्रमायाः समानविषयकशाब्दसामग्रीघटकत्वेन पर्वतो वह्निमानित्यनुमितिप्रतिबन्धकत्वादव्यासिस्तवस्थैव, तादृशप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदकीभूतपर्वतत्वावच्छिन्नविशेष्यतानिरूपितवतित्वावच्छिन्नप्रकारता - याः पर्वतो वह्निमानिति ज्ञानसामान्यसाधारण्यात् ।
नूतनालोकः प्रतिबन्धकत्वमप्रसक्तमेवेति । न चाव्यापकविषयिताशून्यत्वविशेषणस्य स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशकल्पेऽप्यावश्यकतया तेनैव भगवज्ज्ञानव्यावृत्तिरिति वाच्यम् ; सिद्धान्ते तादृशविशेषणस्यैवानुपादानादित्यलमधिकेन ।
शाब्दप्रमाया इति । पर्वतपदजन्यपर्वतोपस्थितित्ववह्निपदजन्यवह्नयुपस्थितित्वसम्पत्तये शाब्देत्युक्तम् ।
आलोकप्रकाशः अप्रसक्तमिति । एकस्यापि सम्बन्धस्य भगवज्ज्ञानसाधारण्याभावादिति भावः । आवश्यकतयेति । जातित्वेन हृदत्वाद्यवगाहिज्ञानव्यावृत्यर्थमित्यादिः । अनुपादानादिति । अयमाशयःयद्रूपावच्छिन्नविषयतेत्यत्र यद्रूपसहितप्रकारतेत्यर्थः । यद्रूपं ह्रदो वह्नयभाववानिति ज्ञानविषयत्वम् । प्रकारतासम्बन्धेन तादृशज्ञानवत्त्वं वा । साहित्यञ्च स्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकत्वम् । वह्नयभाववद्धदवानिति ज्ञानीयप्रकारतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वं तादृशयद्रूपस्येति तादृशप्रकारतामादाय लक्षणसमन्वयः । तद्रूपावच्छिन्नत्वञ्च तद्रूपावच्छिन्नपर्याप्तिकावच्छेदकताकप्रकारत्वरूपं विवक्षितमिति जातिमान् वह्नयभाववानिति ज्ञानीयविषयताव्यावृत्त्या नासम्भवावकाश इति । विस्तरस्त्वन्यतोऽवसेयः ।
__ननु तद्विशेषणानुपादानेऽपि प्रमेयत्वविशिष्टव्यभिचारादिवारणायावश्यं निवेशनीयस्य विशिष्टान्तराघटितत्वस्य ज्ञाने विशिष्टान्तरतावच्छेदकरूपावच्छिन्नाविषयकत्वपर्यवसन्नस्य भगवज्ज्ञानेऽसत्त्वात्तदीयविषयिताव्यावृत्तिरित्यत आह–अलमधिकेनेति । अयं भावः--व्यभिचारघटितबाधादावव्याप्तिवारणाय विशिष्टान्तराघटितत्वविशेषणस्य प्रतिबन्धकतायां विशिष्टान्तरतावच्छेदकरूपावच्छिन्नविषयितासामान्यावच्छिन्नत्वाभावपर्यवसानस्यावश्यं वाच्यतया तद्विशेषणेन भगवज्ज्ञानीयविषयित्वाव्यावृत्तेरिति ।
For Private And Personal Use Only