________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
१६३ कविषयित्वस्य सम्बन्धत्वविवक्षणेन व्यापकत्वाक्षतेः, समानाकारकशानेषु विषयिताभेदस्याप्रामाणिकतया ईश्वरक्षानीयविषयिताया अपि प्रतिवध्यतावच्छेदकत्वात् ।
न च स्वाश्रयज्ञानसामग्रीप्रयोज्याया जन्यशानीयविषयितायास्तद्प्रयोज्यभगवज्ञानीयविषयितातः कथमभेद इति वाच्यम् ; विषयितायाः सामग्रीप्रयोज्यत्वानङ्गीकारात् । तत्सम्बन्धस्यैव तदङ्गीकारात् । अत एव यद्विषयकत्वेनेत्यादिहेत्वाभासलक्षणे विषयितासामान्ये स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशपक्षे नासम्भवोऽव्याप्तिर्वाभिहितः।
नूतनालोकः त्वस्यापि जन्यतारूपप्रतिवध्यतावच्छेदककोटौ निवेशनीयत्वात् स्वावच्छेदकीभूतभेदप्रतियोगित्वमीश्वरज्ञानसाधारणमेवेति कथमसम्भव इति वाच्यम् ; नित्यसाधारणधर्मस्यापि कार्यतावच्छेदकत्वे बाधकाभावेन प्रतिवध्यतावच्छेदककोटावीश्वरज्ञानान्यत्वस्यानिवेशनीयत्वात् । अत एवोक्तं “जन्यस्नेहत्वं तथा बोध्यम्” इति मुक्तावलीपतिव्याख्यानावसरे-"जन्यपदं न देयमेव" इति महादेवेन । कालिकसम्बन्धानुयोगित्वस्य लघोर्निवेशेनैव नित्यज्ञानव्यावृत्तिसम्भवाच्चेत्याशयः । न चैवं सति स्वावच्छेदकीभूतभेदप्रतियोगित्वस्य सम्बन्धघटकत्वे प्रयोजनाभावः, लौकिकप्रत्यक्षादिविषयिताया अपि प्रतिवध्यतावच्छेदकत्वादिति वाच्यम् ; नियताहार्यज्ञानीयविषयितायाः कथमपि प्रतिवध्यतानवच्छेदकतया तत्साधारण्याय तदावश्यकत्वात् ।
अनङ्गीकारादिति। कथं तर्हि जन्यज्ञानीयविषयितायास्तत्सामग्रीप्रयोज्यत्वव्यवहार इत्यत आह.-तत्सम्बन्धस्यैवेति । तथा चौपचारिक एव तादृशव्यवहार इति भावः । अत एव जीवेश्वरज्ञानीयविषयितयोरैक्यस्वीकारादेव । अन्यथा प्रतिबन्धकतानवच्छेदकभगवज्ज्ञानीयविषयितायाः सामान्यान्तर्गततयाऽसम्भवप्रसक्तेः । न च भगवज्ज्ञानस्यापि बाधनिश्चयविधया प्रतिबन्धकत्वेन तद्विषयिताया अप्यवच्छेदकत्वमव्याहतमेवेति वाच्यम् ; भगवज्ज्ञानस्य प्रतिबन्धकत्वाङ्गीकारे मानाभावादिति भावः । ननु लाधवादीश्वरज्ञानसाधारणतदभाववत्तानिश्चयत्वेनैव प्रतिबन्धकत्वं स्वीक्रियते, तथा च नासम्भवः; अत आह-अव्याप्तिति । पक्षावृत्त्यसाधारण्यादावित्यादिः । अयमाशयः - वहिव्यापकीभूताभावप्रतियोगिजलादिरूपासाधारण्यविषयकनिश्चयस्य पर्वतादिविशेष्यकजलवत्तानिश्चयविशिष्टत्वेनैव प्रतिबन्धकत्वं वक्तव्यम् । वैशिष्टयं च सामानाधिकरण्य-कालिकविशेषणत्वैतदुभयरूपं नित्यव्यावृत्तमिति भगवज्ञाने तादृश
For Private And Personal Use Only