________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६२
'न च' रश्नमालिका
न चैवमपि
समानविषयकशाब्द सामग्रीप्रतिबन्धकतामादायाव्याप्तिताद
वस्थ्यम्, तदवच्छेदककोटौ योग्यताज्ञानादेः प्रवेशावश्यकतया व्यधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया अपि तादृशज्ञानविधया तद्भटकत्वादिति वाच्यम्; स्वरूप- स्वावच्छेदकीभूतभेदप्रतियोगित्वान्यतरसम्बन्धेन साध्यवत्ताज्ञानत्वव्यापकत्वस्य प्रतिवध्यतायां विवक्षणेन सामग्रीप्रतिबन्धकताव्यावृत्तेः । इत्थञ्च साध्याभावप्रमासामान्यान्तर्गतयत्किञ्चित्प्रमानिरूपितधर्मितावच्छेदकावच्छिन्न विशेष्यक साध्य वत्तानुमितेः क्वचिदनुत्पादेऽपि न क्षतिः ।
न चैवं सतीश्वरज्ञाने जन्यत्वाभावात्तद्विशेषरूपप्रतिवध्यतायां तत्साधारणसाध्यवत्ताज्ञानत्वव्यापकत्वासम्भवादसम्भव इति वाच्यम्; स्वरूपस्थाने स्वावच्छेद
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकः
शाब्दसामग्रीप्रतिबन्धकतामादायेति । समाने विषये प्रत्यक्षसामग्रया इव शाब्दसामग्रया एवानुमितिसामथ्र्यपेक्षया प्राबल्यात् प्रतिबन्धकता बोध्या । योग्यताज्ञानादेरिति । आदिना तात्पर्यज्ञानादिपरिग्रहः । प्रवेशावश्यकतयेति । अन्यथा योग्यताज्ञानादिशून्यकालेऽवशिष्टशाब्दसामध्या समानविषयकानुमितिप्रतिबन्धापत्तिरिति भावः । व्यधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया इति । वह्निमत्पर्वतकालीनघटत्वेन वह्नद्यभाववान् पर्वत इति प्रमाया इत्यर्थः । केवलस्वरूपस्य व्यापकतावच्छेदकसम्बन्धत्वे लौकिकसन्निकर्षादिजन्यज्ञानान्तर्भावेन व्यापकत्वभङ्ग इत्यन्यतरविवक्षा | नन्वनुमितित्वव्यापकप्रतिवध्यतायां ज्ञानत्वावच्छिन्नत्वविवक्षणेनैव सामग्रीप्रतिबन्धकताव्यावृत्तिसम्भवेऽन्यतरसम्बन्धेन व्यापकत्वविवक्षणमयुक्तमित्यत आह-इत्थं चेति ।
सतीत्यर्थः ।
एवं सतीति । उक्तान्यतरसम्बन्धेन व्यापकत्वविवक्षणे तद्विशेषेति ।
प्रतिबन्धका भावजन्यतेत्यर्थः । असम्भव इति । न च नित्यसाधारणधर्मस्य जन्यतावच्छेदकतया लौकिकसन्निकर्षजन्यभिन्नत्वस्येव नित्यज्ञानान्य
आलोकप्रकाशः
व्यापकत्वभङ्ग इति । तदभाववसानिश्चयप्रतिवध्यताया इत्यादिः । तथा च कामिनीजिज्ञासादिप्रतिवध्यतामादायातिव्याप्तिः स्यादिति भावः । व्यावृत्तिसम्भव इति सामग्रीप्रतिवध्यताया अनुभवत्वव्याप्यजात्यवच्छिन्नतया ज्ञानत्वानवच्छिन्नत्वादिति भावः । हेतुमत्ताज्ञानासमानकालीनज्ञानव्यावृत्तये कालिकविशेषणताप्रवेशः ।
For Private And Personal Use Only