________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तरप्रकाशटिप्पण्योपबृंहिता चक्षुस्संयोगदशायामपि प्रतिबन्धकसत्त्वात् पर्वतो वह्निमानित्यनु मित्यादेरनुत्पादप्रसङ्गादिति वाच्यम् ; स्वावच्छेदकावच्छिन्नवह्निपर्वतसंयोगावच्छेदकावच्छिन्नत्वसम्बन्धेन पर्वतचक्षुस्संयोगादिविशिष्टवह्निचक्षुस्संयोगत्वादिनैव प्रतिबन्धकत्वस्वीकारेणोक्तापत्त्यनवकाशात् ।
न चात्र प्रतिवध्यतावच्छेदकसम्बन्धः प्रतिबन्धकतावच्छेदकसम्बन्धश्च कः ? न तावद्विधेयतासमवायाविति युक्तम् , तथा सत्येकपुरुषीयपर्वतचक्षुस्संयोगविशिष्टान्यपुरुषीयवह्निचक्षुस्संयोगसत्त्वे तयोर्वह्नयनुमित्यनुपपत्तेः। तत्पुरुषीयत्वनिवेशे च पुरुषभेदेन प्रतिवध्यप्रतिबन्धकभावबाहुल्यप्रसङ्ग इति वाच्यम् ; प्रतिवध्यतावच्छेदकसम्बन्धः समवायः, प्रतिबन्धकतावच्छेदसम्बन्धस्तु खाश्रयचक्षुस्संयुक्तमनःप्रतियोगिकविजातीयसंयोग इत्यङ्गीकारेणानुपपत्त्यभावात् । वस्तुतस्तु पर्वतचक्षुस्संयोगविशिष्टवह्निचक्षुस्संयोगविशिष्टविशेषणतावच्छेदकप्रकारकनिर्णयादे - रेव प्रकृते सामग्रीपदार्थतया प्रतिबन्धकतावच्छेदकसम्बन्धत्वमपि समवायस्यैव युक्तमिति चेन्मैवम् ; विशेषणतावच्छेदकप्रकारकनिर्णयादेः सामग्रीघटकत्वेऽपि प्रतिबन्धकतावच्छेदकशरीरे प्रयोजनाभावेनाप्रवेशाद्वयधिकरणधर्मावच्छिन्नसाध्याभावप्रमायां तादृशप्रतिबन्धकत्वस्यासत्त्वेनाव्याप्तिप्रसक्तेरेवाभावात्। ।
- नूतनालोकः अनुत्पादप्रसङ्गादिति । न चात्रेष्टापत्तिः । तदानीं वह्निपर्वतयोः प्रत्यक्षसम्भवेऽपि स्वावच्छेदकावच्छेद्यत्वसम्बन्धेन वह्निपर्वतसंयोगे चक्षुस्संयोगासत्त्वेन तत्प्रत्यक्षासम्भवेन वह्निपर्वतसंयोगानुमितेभिन्नविषयकतया तदुत्पत्तौ बाधकाभावादित्याशयः।
___ तपोरिति । यद्यप्यत्र पुरुषान्तरस्याप्यनुमित्यनुपपत्तिः सम्भवति; तथाप्येकत्र संयोगे तत्पुरुषीयत्वनिवेशेन सा वारयितुं शक्येति तदापत्तिर्नोद्भावितेति ध्येयम् । प्रतिबन्धकतावच्छेदकसम्बन्धस्त्विति । एतत्पक्षे प्रतिबन्धकावच्छेदकतावच्छेदकसम्बन्धः स्वाश्रयचक्षुःप्रतियोगिकत्वं बोध्यम् । आत्ममात्रसाधारण्यवारणायविजातीयेति । वैजात्यञ्च ज्ञानकारणतावच्छेदकतया सिद्धः परात्मसंयोगादिव्यावृत्तो जातिप्रयोजनाभावेनेति । विशेषणतावच्छेदकप्रकारकनिर्णयादिविरहदशायामनुमितिसामग्र्या एवाभावेन तदानीमनुमित्यापत्त्ययोगादिति भावः ।
आलोकप्रकाशः चक्षुःप्रतियोगिकत्वमिति । तथा च पर्वतचक्षुस्संयोगविशिष्टवह्निसंयोगत्वेनैव प्रतिबन्धकतेति ध्येयम् ।
For Private And Personal Use Only