________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रस्नमालिका न च प्रत्यक्षविशिष्टत्वेन प्रतिबन्धकत्वं नोपेयते, किन्तु तत्पूर्वक्षणवृत्तित्वविशिष्टत्वेन, तथा च न काप्यनुपपत्तिरिति वाच्यम् ; एवं सति तादृशप्रतिबन्धकताया ज्ञानवैशिष्टयानवच्छिन्नतया ततस्तदव्यावृत्तेः। घटप्रत्यक्षशाब्दयोः पटप्रत्यक्षानुमित्योश्च सामग्रीसमवधानदशायां घटशाब्दाद्यापत्तेर्दुरित्वाञ्च । तत्र परस्परप्रतिबन्धेन कस्याप्यनुत्पत्त्या सामग्र्याः प्रत्यक्षपूर्ववृत्तित्वविशिष्टत्वासम्भवात् ।
न चैकविशिष्टापरत्वेनापि सामग्र्याः प्रतिबन्धकत्वं न सम्भवति, तथा सति खाश्रयसंयुक्तवृत्तित्वसम्बन्धेन पर्वतचक्षुःसंयोगादिविशिष्टवह्निचक्षुःसंयोगत्वादेरेवैकविशिष्टापरतारूपत्वाद्वह्निपर्वतसंयोगानवच्छेदकदेशावच्छेदेन वह्निपर्वतयोः
नूतनालोकः घटशाब्दाद्यापत्तेरिति । न च तवेष्टापत्तिः, प्रत्यक्षसामग्रीशरीरे भिन्नविषयकानुमितिसामग्र्यभावस्यापि घटकतया प्रतिबन्धकाभावेन सिद्धान्तेऽपि शाब्दाद्युत्पत्ती बाधकाभावादिति वाच्यम् ; प्रत्यक्षसामग्रीशरीरे तस्य घटकत्वेऽपि प्रतिबन्धकतावच्छेदकशरीरे तदप्रवेशात् । अन्यथा शाब्दसामग्र्यां भिन्नविषयकानुमितिसामन्यभावस्य, तत्र समानविषयकप्रत्यक्षसामग्र्यभावस्य, तत्र च भिन्नविषयकशाब्दादिसामग्र्यभावस्य प्रवेशनीयत्वेनानवस्थाप्रसङ्गात् । दुर्वारत्वादिति । तथा चागत्या एकविशिष्टापरत्वेनैव प्रतिबन्धकत्वस्य वक्तव्यतया निरुक्तज्ञानवैशिष्टयानवच्छिन्नतादृशप्रतिबन्धकतामादायाव्याप्तिर्दुवारैवेति भावः ।
आलोकप्रकाशः भावः। न काप्यनुपपत्तिरिति । तत्क्षणवृत्तित्वविशिष्टस्य तत्क्षण एव सत्त्वादिति भावः । व्याख्यायाम्प्रवेशनीयत्वेनेति । इदमत्र बोध्यम्-जातिसाङ्कर्यस्य ज्ञानयोगपद्यस्य चानभ्युपगततयोभयसामग्रीसत्त्वे केनचिदेकेनैव कार्येण भवितव्यम् । तत्र प्रतिबन्धकत्वादृते नान्यद्विनिगमकं सम्भवतीत्यावश्यक प्रतिबन्धकत्वम् । तत्रेयं व्यवस्था तान्त्रिकानुमता-प्रत्यक्षसामग्री अनतिरिक्तविषयिकायामनुमितौ शाब्दमतौ च प्रतिबन्धिका, विभिन्नविषयके शाब्देऽनुमितिसामग्री, तादृशे प्रत्यक्षे च शाब्दसामग्रीति । अनवस्थाप्रसङ्गादिति । अनवस्था चात्र प्रतिबन्धकतावच्छेदकस्य सामग्रीनिष्ठस्वघटकतात्वव्यापकसामग्रीत्वघटितधर्मावच्छिन्नप्रतियोगिताकाभावावच्छिन्नत्वकत्वम् । तथा चानन्तसामग्यभावादिघटितत्वात् प्रतिबन्धकतावच्छेदकधर्मस्य दुर्जेयता स्यादिति भावः । एकविशिष्टापरत्वेनैवेति । स्वाश्रयसंयुक्तवृत्तित्वादिसम्बन्धेन पर्वतचतुःसंयोगादिविशिष्टवह्निचक्षुःसंयोगत्वादिनेत्यर्थः । तथा च विशेषणविशेष्यभावे विनिगमनाविरहप्रयुक्तं गौरवं सोढव्यमेवेति भावः ।
For Private And Personal Use Only