________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः
तावदभावानां परस्परमप्रामाण्यग्रहाभावादिभिश्च समं विशेषणविशेष्यभावे विनिगमनाविरहेण कारणताबाहुल्यमिति तादृशतादृशविशेषदर्शनानन्तरप्रत्यक्षे तादृशतादृशविशेषदर्शनानां विपरीतज्ञानानुत्तरप्रत्यक्षे तदभावस्य च पृथकारणत्वमेव युक्तमिति वाच्यम् ; आनन्तर्यस्य स्वत्वघटितत्वेन कार्यकारणभावस्य तत्तद्वयक्तिविश्रमापत्तेः। यदि चानुमितिदीधित्युक्तरीत्या नानाविधविशेषदर्शनानां विपरीतज्ञानविरोधित्वेनानुगमान्नैकविशेषदर्शनस्यान्यविशेषदर्शनजन्यप्रत्यक्षे व्यभिचार इति न तज्जन्यतावच्छेदककोटावानन्तर्यनिवेशनम् । अत एवावच्छेदकधर्मदर्शनस्यापि संग्रह इत्युच्यते, तदापि विपरीतज्ञानानुत्तरप्रत्यक्षे विशेषदर्शनस्य व्यभिचारवारणाय विपरीतज्ञानाव्यवहितोत्तरत्वस्य विशेषदर्शनजन्यतावच्छेदकगर्भेऽवश्यं निवेशनीयतया विशेषदर्शनजन्यतावच्छेदकस्य तत्तद्वयक्तिविश्रामो दुर्वारः। एवं विपरीतज्ञानप्रतिवध्यतावच्छेदकशरीरेऽव्यवहितोत्तरत्वप्रवेशस्यावश्यकतया तदननुगमात्तदभावजन्यतावच्छेदककोटौ तत्तद्विपरीतज्ञानाव्यवहितोत्तरत्वाभावकूटस्यानिवेशनीयतया गौरवं दुर्वारमेव ।
यत्तु विशेषदर्शनजन्यप्रत्यक्षं व्याप्यधर्मविशिष्टधर्मिविशेष्यकमेव, तदनुत्तरं तु न तथा। तथा च विशेषदर्शनविपरीतज्ञानाभावजन्यतावच्छेदकयोस्तथा
आलोकप्रकाशः तद्धर्मावच्छिन्नोत्पत्तौ तद्धर्मावच्छिन्नसामग्रीप्रयोजिका । तद्धर्मावच्छिन्नसामग्री च तद्धर्माश्रययत्किञ्चिद्वयक्तिनिरूपितकारणतावच्छेदकनिखिलधर्मावच्छिन्नसमुदायः। न तु तद्धर्मावच्छिन्ननिरूपितकारणतावच्छेदकनिखिलधर्मावच्छिन्नसमुदायः, तद्धर्माश्रयनिष्ठयत्किञ्चिदेकधर्मावच्छिन्ननिरूपितकारणतावच्छेदकनिखिलधर्मावच्छिन्नसमुदायो वा, सामान्यविशेषसामग्योः परस्परापेक्षानुपपत्तेः । स्पष्टं चैतत्सामान्यलक्षणाप्रकरणस्थगादाधर्यामित्यलमधिकेन ।
व्याख्यायाम्-एकामावविशिष्टत्वेनैवेति । अन्यथा तत्तद्विषयकज्ञानविषयत्वरूपकूटल्वेन निवेशे ज्ञानांशे तत्तद्विषयकत्वानां विशेषणविशेष्यभावे विनिगमनाविरहप्रसक्त्या महागौरवं स्यादिति भावः। कारणताबाहुल्यमिति । गुरुभूतविपरीतज्ञानाभावकारणताबाहुल्यमित्यर्थः । विशेषदर्शनस्य व्यभिचारवारणायेति । असति विपरीतज्ञाने विशेषदर्शनं विनापि प्रत्यक्षोत्पत्या निरुक्तानुगतरूपावच्छिन्नस्यापि तस्य व्यभिचारादिति भावः। अव्यवहितोत्तरत्वप्रवेशस्येति । अभावप्रतियोगितयेत्यादिः।
For Private And Personal Use Only