Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 186
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता दर्शनाभावविशिष्टसंशयसाधारणविपरीतज्ञानत्वेन विशिष्टबुद्धिं प्रति प्रतिबन्धकतयैवोपपत्तेस्तद्धेतुत्वानावश्यकत्वात् ।। न चैवं बाधनिश्चयकाले लिङ्गपरामर्शात्मकविशेषदर्शनादनुमित्यापत्तिविशिष्टाभावसत्त्वात्। एवं निश्चयत्वानिवेशात् संशयोत्तरंसंशयानुपपत्तिः, योग्यतासंशयस्य शाब्दबोधप्रतिबन्धकतापत्तिश्च, प्रतिवध्यतावच्छेदकगर्भ निश्चयत्वप्रवेशेन संशयोत्तरसंशयोपपादने बाधनिश्चयोत्तरमपि संशयापत्तिरिति वाच्यम् ; परोक्षशाने बाधनिश्चयस्य प्रतिबन्धकत्वान्तरकल्पनेन बाधनिश्चयदशायामनुमित्यापत्तिवारणात्, प्रत्यक्षनिश्चयत्वस्यैव च संशयादिसाधारणविपरीतज्ञानप्रतिवध्यतावच्छेदकतया ग्राहासंशयोत्तरं संशयशाब्दबोधाधुपपत्तेः। न च प्रत्यक्षनिश्चयान्यबुद्धौ विपरीतनिश्चयत्वेन प्रतिबन्धकत्वान्तरस्यैतन्मतेऽप्यावश्यकत्वेन प्रत्यक्षनिश्चये विशेषदर्शनाभावविशिष्टविपरीतशानाभावहेतुता नूतनालोकः कालीनप्रत्यक्षेऽपि विशेषदर्शनस्य हेतुत्वान्तरं विपरीतज्ञानवत्तादृशदोषाणां च प्रतिबन्धकत्वमिति । उपपत्तेरिति । भ्रमदशायां विशेषदर्शनस्य सत्त्वे प्रत्यक्षनिश्चयस्यासत्त्वे तदभावस्य चोपपत्तेरित्यर्थः। निश्चयत्वानिवेशादिति । प्रतिवध्यतावच्छेदकादिकोटावित्यादिः । अनुमित्यापत्तिवारणादिति । न चैवं बाधनिश्चयोत्तरं संशयस्यापत्तिः; अनुमित्यादिसाधारणबाधनिश्चयप्रतिवध्यतावच्छेदकगर्भे प्रत्यक्षनिश्चयान्यत्वस्य प्रवेशनीयतया संशयस्य बाधनिश्चयप्रतिवध्यत्वोपपत्तेः। __ आलोकप्रकाशः अपिना भ्रमोत्तरप्रत्यक्षपरिग्रहः । हेतुस्वान्तरमिति । स्वविषयनिरूपितं यदूरत्वम् , तद्विशिष्टखाधिकरणतासम्बन्धेन स्थाणुल्वप्रकारकौकिकप्रत्यक्षत्वावच्छिन्नं प्रति विशेषदर्शनं कारणमिति निष्कर्षः । दूरत्ववैशिष्ट्यं स्वाश्रयशरीरावच्छिन्नत्व-खावच्छेदककालावच्छिन्नत्वोभयसम्बन्धेन । इत्थं च समीपस्थपुरुषस्य विना विशेषदर्शनं स्थाणुत्वादिप्रत्यक्षनिर्वाहः । ___ संशयस्यापत्तिरिति । परोक्षजानं निश्चयात्मकमेवेति सिद्धान्तेन संशयस्याप्रतिवध्यत्वादिति भावः। मूले-हेतुत्वकल्पनमेवेति । विपरीतज्ञानोत्तरप्रत्यक्षनिश्चयत्वावच्छिन्नं प्रतीत्यादिः । उचितमिति । लाघवाद्विनिगमनाविरहाप्रसक्त्या कार्यकारणभावद्वयस्थानावश्यकत्वाच्चेति भावः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215