Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 184
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता १६७ रेकाभ्यां विपरीतज्ञानानन्तरप्रत्यक्षनिश्चयत्वावच्छिन्नं प्रति ग्राह्यव्याप्यवत्तानिश्चयत्वेन हेतुत्वं कल्प्यते। न च ग्राह्याभावशानेन प्रतिबन्धादेव विपरीतनिश्चयाद्यनन्तरं प्रत्यक्षनिश्चयानुत्पत्तिनिर्वाहे किं विशेषदर्शनस्य हेतुतयेति वाच्यम्; विपरीतनिश्चयादिसत्त्वेऽपि विशेषदर्शने प्रत्यक्षनिश्चयोत्पत्त्या प्रत्यक्षनिश्चये ग्राह्याभावग्रहस्याप्रतिबन्धकत्वात् । विपरीतनिश्चयकालेऽनुमित्यादेर्वारणाय विपरीतनिश्चयस्य विशिष्टधीविरोधित्वकल्पनाया आवश्यकत्वेऽपि प्रत्यक्षनिश्चयान्यत्वस्यैव तत्प्रतिवध्यतावच्छेदकत्वोपगमात् । न च प्रत्यक्षनिश्चयं प्रति विपरीतशानस्याप्रतिबन्धकत्वे शङ्खो न श्वेत इत्यादि दोषजन्यविपरीतनिश्चयकाले श्वैत्यव्याप्यशङ्खत्वादिदर्शनात् शङ्खः श्वेत इत्यादि चाक्षुषापत्तिरिति वाच्यम् ; तादृशदोषस्यैव श्वैत्यादिग्रहप्रतिबन्धकत्वात् । यदि च विनश्यदवस्थापन्नदोषजन्यविपरीतनिश्चयसत्त्वे न श्वैत्यादिप्रत्यक्षम् , तदास्तु प्रत्यक्षे समानेन्द्रियजन्योपनीतभानभिन्नविपरीतनिश्चयस्य प्रतिबन्धकत्वम् । नूतनालोकः कार्यव्यतिरेकप्रयोजकीभूताभावप्रतियोगिन एव कारणत्वम्। विपरीतज्ञानदायां विपरीतज्ञानाभावघटितस्वेतरनिखिलकारणसत्त्वमेव नास्तीति विशेषदर्शनस्यान्यथासिद्धत्वमेवेति भावः । ग्रहस्य ज्ञानत्वावच्छिन्नस्य । अप्रतिबन्धकत्वादिति । तथा च व्यतिरेकव्यभिचारेण विपरीतज्ञानाभावस्य हेतुत्वाभावान्निखिलकारणसत्त्वं प्रकृते निर्बाधमेवेति भावः । निश्चयान्यत्वस्यैवेति । विपरीतनिश्चयोत्तरं संशयानुत्पत्त्या प्रत्यक्षान्यत्वस्येति नोक्तम् । तत्प्रतियोगितावच्छेदकत्वोपगमादिति । तथा च तादृशप्रतिबन्धकतयापि न विपरीतनिश्चयाद्यनन्तरं प्रत्यक्षनिश्चयानुत्पत्तिनिर्वाह इति भावः । ___समानेन्द्रियेति । चक्षुषा वंशे उरगत्वभ्रमेऽपि त्वचा तत्र तदभावग्रहात् समानेन्द्रियजन्यत्वनिवेशनम् । प्रतिबन्धकत्वमिति। तथा च शजो न श्वेत इति भ्रमे शङ्खांशेऽनुभूयमानस्यैव पित्तद्रव्यनिष्ठश्वैत्याभावस्यारोपोपगमेन आलोकप्रकाशः मूले--उपनीतभानभिन्नेति । लौकिकेत्यर्थः। तेन सामान्यलक्षणाधीनविपरीतनिश्चयस्याप्रतिबन्धकत्वेऽपि न क्षतिः। मणौ साक्षात्कारिविशेषदर्शनमित्यस्य समानेन्द्रियजन्यं ग्राह्याभावादिप्रकारकलौकिकप्रत्यक्षमित्यर्थः । व्याख्यायाम्-दोषस्येति । विपरीतनिश्चयजनकदोषस्येत्यर्थः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215