Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 183
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __'न च' रत्नमालिका वश्यकतया समानविषयकप्रत्यक्षान्यज्ञानप्रतिबन्धकतामादायाव्याप्तेqारत्वादिति चेन्मैवम् ; विशेषदर्शनाभावविशिष्टसंशयसाधारणविपरीतज्ञानस्य प्रतिबन्धकत्वस्वीकारेणैवोपपत्तौ तत्र विशेषदर्शनहेतुताया एवाप्रामाणिकत्वात् । केचित्तु विरोधिनिश्चयानन्तरं ग्राहासंशयानन्तरञ्च विना ग्राह्यव्याप्यवत्ताशानं पुरुषत्वादिनिश्चयो नोत्पद्यते, सति तु तस्मिन् जायते । अतोऽन्वयव्यति नूतनालोकः स्वीकारात्। यद्यपि विशेषदर्शनविरहदशायामनुमितिसामग्या एवाभावेन विशेषणज्ञानादेरिव तस्याप्यनुमितिप्रतिबन्धकसामग्रीघटकत्वं व्यर्थम्,तथापि शाब्दप्रतिबन्धकसामग्रीशरीरे तत्प्रवेश आवश्यकः । अन्यथा तद्विरहदशायां शाब्दानुपपत्तेः । न च प्रतिबन्धकसामध्या विशेषदर्शनघटितत्वाघटितत्वाभ्यां भेदेन प्रतिवध्यतावच्छेदकभेदेन च प्रतिवध्यतयोर्भेदान्न कस्या अपि तस्याः साध्यवत्ताज्ञानत्वव्यापकत्वमिति वाच्यम् ; यत्रकविधयैवेच्छया प्रतिबन्धकसामग्रीसमवधानकाले शाब्दानुमिती तत्र लाघवेनोभयसाधारणपर्वतत्वावच्छिन्नमुख्यविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताशलिप्रत्यक्षान्यज्ञानत्वावच्छिन्नं प्रति विशेषदर्शनघटितसामच्या एकविधप्रतिबन्धकत्वस्यैव कल्पनीयत्वादित्याशयः । उपपत्तौ संशयोत्तरं प्रत्यक्षनिश्चयानुत्पादनिर्वाहे । मिश्रानुयायिनां मतमाह-केचित्त्विति । पुरुषत्वादिनिश्चयः प्रात्यक्षिकपुरुषत्वादिनिश्चयः। किं विशेषदर्शनस्य हेतुतयेति । स्वव्यतिरिक्तनिखिलकारणसत्त्वसमानकालीन आलोकप्रकाशः प्रसङ्गः। विरोधिज्ञानाप्रतिबन्धकत्वप्रसङ्गश्च, प्रकारतादीनामेव तादृशप्रतिवध्यप्रतिबन्धकभावावच्छेदकत्वादिति दिक्” इति प्राहुः । व्याख्यायाम्-प्रतिबन्धकसामग्रीप्रवेश इति । सामग्रीविधया या प्रतिबन्धकता, तदवच्छेदककोटिप्रवेश इत्यर्थः । भावश्यकतत्प्रवेश इति । आवश्यकस्त प्रवेशः प्रतिबन्धकसामग्रीप्रवेशो यस्य तादृशं यद्विशेषदर्शनं तद्रूपतासम्पादनायेत्यर्थः । विशेषदर्शनघटितरवाघटितत्वाभ्यां भेदेनेति । शाब्दिप्रतिबन्धकीभूतायाः प्रत्यक्षसामग्या विशेषदर्शनघटितत्वात् , अनुमितिप्रतिबन्धकतायाश्च तस्या उक्तयुक्त्या तदघटितत्वाच्च भेदो बोध्यः । उत्तेजकेच्छाभेदस्याप्युपलक्षणमेतत् । प्रतिवध्यतावच्छेदकभेदेनेति । शाब्दत्वानुमितित्वयोरेव तदवच्छेदकत्वादिति भावः । एकविधयैवेति । प्रत्यक्षान्यज्ञानं भूयादित्याकारिकयैवेत्यर्थः । अन्यथोत्तेजकभेदेन प्रतिवध्यप्रतिबन्धकभावभेदस्य दुरितापत्तेरिति भावः। प्रकारताशालीति । इदश्च विशेषणमसमानविषयकशाब्दादिव्यावृत्यर्थम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215