Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 181
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ ___'नच' रत्नमालिका अथ स्वावच्छेदकविषयितासम्बन्धेन व्यापकत्वविवक्षणे पदार्थोपस्थित्यादिविधया शाब्दबोधं प्रति हेतुभूताया व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववान् पर्वत इति शाब्दप्रमायाः समानविषयकशाब्दसामग्रीघटकत्वेन पर्वतो वह्निमानित्यनुमितिप्रतिबन्धकत्वादव्यासिस्तवस्थैव, तादृशप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदकीभूतपर्वतत्वावच्छिन्नविशेष्यतानिरूपितवतित्वावच्छिन्नप्रकारता - याः पर्वतो वह्निमानिति ज्ञानसामान्यसाधारण्यात् । नूतनालोकः प्रतिबन्धकत्वमप्रसक्तमेवेति । न चाव्यापकविषयिताशून्यत्वविशेषणस्य स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशकल्पेऽप्यावश्यकतया तेनैव भगवज्ज्ञानव्यावृत्तिरिति वाच्यम् ; सिद्धान्ते तादृशविशेषणस्यैवानुपादानादित्यलमधिकेन । शाब्दप्रमाया इति । पर्वतपदजन्यपर्वतोपस्थितित्ववह्निपदजन्यवह्नयुपस्थितित्वसम्पत्तये शाब्देत्युक्तम् । आलोकप्रकाशः अप्रसक्तमिति । एकस्यापि सम्बन्धस्य भगवज्ज्ञानसाधारण्याभावादिति भावः । आवश्यकतयेति । जातित्वेन हृदत्वाद्यवगाहिज्ञानव्यावृत्यर्थमित्यादिः । अनुपादानादिति । अयमाशयःयद्रूपावच्छिन्नविषयतेत्यत्र यद्रूपसहितप्रकारतेत्यर्थः । यद्रूपं ह्रदो वह्नयभाववानिति ज्ञानविषयत्वम् । प्रकारतासम्बन्धेन तादृशज्ञानवत्त्वं वा । साहित्यञ्च स्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकत्वम् । वह्नयभाववद्धदवानिति ज्ञानीयप्रकारतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वं तादृशयद्रूपस्येति तादृशप्रकारतामादाय लक्षणसमन्वयः । तद्रूपावच्छिन्नत्वञ्च तद्रूपावच्छिन्नपर्याप्तिकावच्छेदकताकप्रकारत्वरूपं विवक्षितमिति जातिमान् वह्नयभाववानिति ज्ञानीयविषयताव्यावृत्त्या नासम्भवावकाश इति । विस्तरस्त्वन्यतोऽवसेयः । __ननु तद्विशेषणानुपादानेऽपि प्रमेयत्वविशिष्टव्यभिचारादिवारणायावश्यं निवेशनीयस्य विशिष्टान्तराघटितत्वस्य ज्ञाने विशिष्टान्तरतावच्छेदकरूपावच्छिन्नाविषयकत्वपर्यवसन्नस्य भगवज्ज्ञानेऽसत्त्वात्तदीयविषयिताव्यावृत्तिरित्यत आह–अलमधिकेनेति । अयं भावः--व्यभिचारघटितबाधादावव्याप्तिवारणाय विशिष्टान्तराघटितत्वविशेषणस्य प्रतिबन्धकतायां विशिष्टान्तरतावच्छेदकरूपावच्छिन्नविषयितासामान्यावच्छिन्नत्वाभावपर्यवसानस्यावश्यं वाच्यतया तद्विशेषणेन भगवज्ज्ञानीयविषयित्वाव्यावृत्तेरिति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215